पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य- दक्षस्य संभवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाज्जिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां ब्रजन्ति । तीव्रानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातुभेदाः ॥ १५॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा- दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरहोऽपि किं वा विबोधमुपयाति न जीवलोकः ।। १९ ॥ चित्रं विभो कथमवाङ्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मबीजस्य. २. 'संभविपदं' इति पाठः, ३. काचकामलादयो नेत्ररोगास्तद्युक्तैः. ४. श्रीपार्श्वनाथोऽशोकक्षतले स्थितवान्, 'उचैरशोकतरवैश्रितं' इति भक्तामरस्तवेऽपि. २ का०स० गु०