१० काव्यमाला। स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुप्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८ ॥ इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् ।
श्रीसिद्धसेनदिवाकरप्रणीतं
कल्याणमन्दिरस्तोत्रम्।
कल्याणमन्दिरमुदारमवद्यभेदि
भीताभयप्रदमनिन्दितमङ्किपद्मम् ।
संसारसागरनिमज्जदशेषजन्तु-
पोतायमानमभिनम्य जिनेश्वरस्य ॥ १॥
यस्य स्वयं सुरगुरुर्गारिमाम्बुराशेः
स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् ।
१. मानतुअमिति स्वकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम्. २. कल्याण
मन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपद्ये तु
कुमुदचन्द्र इति कर्तुनाम लभ्यते. तच सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे
विहितं मामेति स्तोत्रटीकाकर्ता बक्ति. सिद्धसेनदिवाकरो विक्रमादित्यसमय उज्जयि-
न्यामागत इत्यादि प्रबन्धचिन्तामणौ विक्रमादित्यप्रवन्धे वर्तते. स च श्वेताम्बर आसी-
दिस्यपि तत एव प्रतीयते. दिगम्बरास्तु दिगम्बरमेनं वदन्ति. ख्रिस्ताब्दीयषष्टशत-
कोद्भूतः श्रीवराहमिहिराचार्यों बृहज्जातकस्य सप्तमेऽध्याये कंचन सिद्धसेननामानं गणक
स्मरति, स चायमेव सिद्धसेनदिवाकरः स्थात्, अन्येऽपि वित्राः सिद्धसेना जैनेषु
प्रसिद्धाः सन्ति. कल्याणमन्दिरस्तोत्रं तु दिगम्बराः श्वेताम्बराच पठन्ति. किंतु
भक्कामरस्तोत्रवदस्य भूयस्पष्टीकाः प्रतिपद्यं मत्रास्तत्प्रभाव किंवदन्त्यश्च नातीव प्रच-
रिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मदृष्टेषु निखिलेष्वपि पुस्तकेषु
चतुश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चासाभिरेकं कर्तृनामरहितसंक्षिप्त-
टीकासमेतमपरं हिन्दीभाषान्तरसहितमिति पुस्तकद्वयं भगवानदासत्रेष्ठितः प्राप्तम्.
द्वित्राणि मूलपुस्तकानि चेति.