पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कल्याणमन्दिरस्तोत्रम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो. स्तस्याहमेष किल संस्तवनं करिष्ये ॥ २ ॥ (युग्मम् ) सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ ३ ॥ मोहक्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा- न्मीयेत केन जलधेर्ननु रत्नराशिः ॥ ४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियाम्बुराशेः ॥ ५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ।। आस्तामचिन्त्यमहिमा जिन संस्तवते नामापि पाति भवतो भवतो जगन्ति । तीत्रातपोपहतपान्थजनान्निदाधे प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ हृद्धर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । को नाम पार्श्वनाथप्रभोस्तपोविनकती कश्चन दैत्य आसीत्, पार्श्वनाथस्यानु- भूतः कमठ इत्यपि केचिद्वदन्ति. 'शठकमठकृतोपद्वाबाधितस्य' इति पार्श्व- नाथस्तवेऽपि पार्श्वनाथविशेषणम्.