पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भक्तामरस्तोत्रम् । वल्गतुरङ्गगजगर्जितभीमनाद- माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥ कुन्तामभिन्नगजशोणितारिवाह- वेगावतारतरणातुरयोघभीमे। युद्धे जयं विजितदुर्जयजेयपक्षा- स्त्वत्यादपङ्कजवनायिणो लभन्ते ॥ ४३ ॥ अम्मोनिधौ क्षुभितभीषणनक्रचक्र- पाठीनपीठभयदोल्वणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा- स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति ॥४४॥ उद्भूतभीषगजलोदरभारभुग्नाः शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममत्रमनिशं मनुजाः सरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहि- सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ १७ ॥ १. वारिवाहा जलप्रवाहाः २. 'चके' इति पाठ.. ३. 'भप्ताः', 'मग्नः' इति च .