पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उन्निद्रहेमनवपङ्कजपुञ्जकान्ती पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विवुधाः परिकल्पयन्ति ॥ ३६ ॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र धर्मोपदेशनविधौ न तथा परस्य । याहक्प्रभा दिनकृतः प्रहतान्धकारा तादृकुतो ग्रहगणस्य विकासिनोऽपि ॥ ३७॥ श्च्योतन्मदाविलविलोलकपोलमूल- भत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताममिममुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भक्दाश्रितानाम् ॥ ३८ ॥ भिन्नेभकुम्भगलदुज्वलशोणिताक्त- मुक्ताफलपकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥ कल्पान्तकालपवनोद्धतवहिकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ४०॥ रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्क- स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ११ ॥ १, औषधिविशेषः.