पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भक्तामरस्तोत्रम् । कुन्दावदातचलचामरचारुशोमं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त- मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ [गम्भीरतारवपूरितदिन्विभाग- स्त्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स- न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ॥ मन्दारसुन्दरनमेरुसुपारिजात- संतानकादिकुसुमोत्करवृष्टिरुद्धा। गन्धोदबिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ।। ३३ ॥ शुभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व- भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३५॥] १. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरैर्न व्याख्यातम्, अस्माकमप्येतत्प्रक्षिप्तमेव भाति. २. 'ध्वनाते'. उद्धा प्रशस्ता. भतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्व- वाचकाः उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्.