पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनस्तुतिः। १५५ तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलरीरितो धैर्याश्चालितो दारिततमः । न एवंविधः अदारेरिततमः ॥ जलव्यालव्याघ्रज्वलनगजरुम्बन्धनयुधो गुरुर्वाहोऽपातापदधनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिमा- गुरुवाहोऽपाता पदधनगरीयानसुमतः ॥ ८३ ।। कृतान्तः सिद्धान्तोऽसुमतः प्राणिननासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्व- लनगजरुग्बन्धनयुधः । व्यालः सर्पः । रुको जलोदरादिरोगाः बन्धन कारानिरो. धादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुमहान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अधं पापं च यस्यां सा चासो नगरी च युक्त्या मुक्ति- रेव तस्या याने गमने सुष्टु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेनुप्रमितिभाक् । उरुर्विशालः । बाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता नायकः । पदघनगरीयान् पदधनोऽर्थ- निविडः गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च ।। विपक्षन्यूह वो दल्यतु गदाक्षावलिधरा- समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोमृतधननिभाम्भोधितनया- समानाली काली विशदचलनानालिकबरम् ॥ ८४ ॥ काली देवी वो युष्माकं विपक्षव्यूह प्रतीपपटलं दलयतु पिनष्ट । किविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यस- दृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मली चलनौ पादौ यस्याः सा । नालिकवरं प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा ! अम्भोमृतः पयः- पूर्णौ यो घनो मेघस्तस्य निभा कृष्णवर्णलात्समा । अम्भोधितनयासमाना लक्ष्मी- तुल्या आल्यः सख्यो यस्याः । विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा यडलयो भ्रमरासैः कवर मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ।। चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा- दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनितिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहर्स राजीमतीतापदम् ॥ ८५ ॥ यो नेलिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजक बलवद्राजवृन्द रणमुखे चिक्षेप बमले । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षामनुपचितम् । हे जन, ते नेमि नम । किंभू- तम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनै समानं वा । अहसं हास्यमुक्तम् ।