पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनस्तुतिः । यः कंदपंतपःशमी अन जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते व योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां पमश्रिया प्रभाति मे चकितहरिद्विप नगे। बटाहये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ॥ यक्षराद कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशम- लक्षमा प्रभाति प्रकर्षण शोभमाने । यक्षराद किंविशिष्टः । चकितनस्तो हरिद्विप ऐरा- वणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नगे विगतसपै नगे वृक्षे बटाभिधाने कृता वसतिरालयो येन । प्रभया कान्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः ॥ जिनमुनिसुव्रतः समवताजनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमन:- समुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमुनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जन- तया जनसमूहेनावनतः । समुदिताः सहर्षा ये मानवा मनुष्या अवनिविकीर्ण भूमा राशीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सतः । दीक्षा ग्रहीतुकामखे. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा मनसमुदिता सदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः कर्म च येन ॥ प्रणमत तं जिनब्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो- दलकमला ननाम हिमधामभया समरुक् ॥ ७८॥ प्रणमत नमत तं जिनवजमहत्संदोहम् । कथंभूतम् । भयास भयक्षयकारकम् । सुरे. न्द्रवरयोपिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिनो धाम गृहम् । जिनविशेषणमेतत् । हिमधामा बन्दस्तस्य भया कान्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघटनेन उदतोऽलकेषु केशेषु मलो यस्याः सा । त्वमवनतालिनोत्तमकृतान्त भवाद्विदुषो- ऽव सदनुमानसंगमन याततमोदयितः। शिवसुखसाधकं खभिदधस्सुधियां चरणं वसदनु मानसं गमनयात्तत मोदयितः ॥ ७९ ॥ हे जिनोत्तमसमय, समवनतान् प्रणमतो. विदुषो र भवात्संसारातः । उद शोभा मानं विद्यमान, था. अनुमानस्य प्रमाणस्य संगमनं संगविर्यस्य तस्य संबोधनम् ।। है