पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्वपितोल्लसत्सकलधौतसहासनमेवः ॥ ५३ ।। सकलाः समस्ता धौताः क्षालिताः सहासाः सविकासा नमेरवो वृक्षविशेषा यस्खे । मतमभिप्रेतम् । हे अनन्तजिन । चतुर्दशस्य तीर्थकृतो वे नाम्नी अनन्तोऽनन्तजिच । सहा- सनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते । ततः मपितः स्नानं कारितः उल्लसशोभ- मानः सकलधौतः सहेमा सहासनो मेस्यते । यता सकलधौतं ससुवर्ण सह समर्थ दृढमासनं यस्मिन् । ततः स्लपित उल्लसन् सकलधौतहासनमेश्यस्तै । हे अनन्तजित , तव लानजलप्रवाहा मतं हितं दिशान्तिति संबन्धः॥ मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक । वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ ५४ ।। हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाऽयं निहन्तु । रताः सक्तचित्ता येऽ. मरास्तैः सेवित । हे क्षणप्रद उत्सवदायक । वरं ददातीति वरद । पादयुग किंभूतम् । गतं प्राप्तम् । क । अमरतामरसे सुरकृतनवकमलेषु । जातिलादेकवचनम् । वितते विस्तीर्णे लोचने यस्य तस्य संबोधनम् ॥ परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ ५५ ॥ हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान भवतः संसारात् अवतादक्षताम् । किंवि- शिष्टम् । परमतानां बौद्धादिशासनानामापदों हेतुखादापद्व्यसनम् । अमानान्यसंख्यानि सजन्ति संबध्यमानानि मनःत्रियाणि चित्तप्रीतिकराणि पदानि खाद्यन्तानि यस्मिस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य॥ रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता । धृतधनुःफलकासिशरा करै रसितमुञ्चतुरं गमनाय कम् ॥ ५६ ॥ अच्युता अच्छुप्ता देवी के सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गम- नायकं तुनाश्वप्रकाण्डम् । किविशिष्ठम् । रसितं शब्दायमानम् । उत्प्रायल्येन चतुरं दक्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गर्म- नाय गत्यर्थम् । देवी कथंभूता । काञ्चनवत्कान्तिर्यस्याः सा । करैः शरैर्धता चापावरण- खजबाणा गया सा। नमः श्रीधर्म निष्कर्मोदयाय महितायते। मामरेन्द्रनागेन्द्रर्दयायमहिताय ते ॥ ५७ ।। हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कर्वभूताय । निर्गतः कर्मोदयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता पूजिता आयतिरुत्तरकाल: प्रभुता'मा यस्य । यहा