पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। नसंच नाहृत नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादशं यस्याः सा कमलख- दृशानी । तारा मनोहरा । वा समुचये ।। जिनवरततिर्जीवालीनामकारणवत्सला- समदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्ख्या नूता तनोतु मतिं ममा. समदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिमम मतिं ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वी वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नना येऽमृतभुजो देवास्तेषां पङ्ख्या नूता स्तुता । मतिं किंभूताम् । असमदैनिरहंकारैर्महिता पूजिताम् । आरात् शीघ्र मिष्टा पूजिता । अभिमता वा । देव- पढ़या किंभूतया । सह मानवराजैनरेन्द्रवर्तते या तया ॥ भवजलनिधित्राम्यजन्तुबजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ १३ ॥ है संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपर्द मानववृद्धिं समभिषतां वाञ्छता सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि । इति संटङ्कः । नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किंकि. शिष्टानाम् । सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ।। धृतपविफलाक्षालीघण्टैः करैः कृतबोधित- प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजसनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिमिः ॥ १४ ॥ महाकाली देवी प्रजयति प्रकर्षण वैरिजयेन सर्वोत्कृष्ट वर्तते । करैईखैरुपलक्षिता । किंभूतैः । धृता वन-फल-जपमाला-घण्टा येते तथा । वैवी किंभूता । बोधिता प्रजा लोको यैते बोधितप्रजास्ते च ते यतयश्च साधवः । ततः कृतो बोधितप्रजयतीनां महः 'पूजा उत्सवो का यया सा । तथा काली स्यामां दपती धारयन्ती । काम् । स्ववपुरी- ताम् । किंभूताम् । अपरिक्षतामदूषिताम् । के। अतिः पीड़ा, भाषिर्मानसी व्यथा,