पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। पाकर्दमः काष्यम्, जरा विलसा, आजिः प्रधनं तैः । पुनः मिभूताम् । अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किं विशिष्टः। कर्ज पद्मं तद्राजिभी राजनशीलः ॥ पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते- मायासंसारवासावन वर तरसाली नवालानबाहो। आनम्रा त्रायतां श्रीप्रभवभवभयाद्विभ्रती भक्तिभाजा- मायासं सारवासावनवरतरसालीनवालानबाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अजिन, हे जिनपने, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उदन्छन् । आदित्यसादका कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारचामा, मुशौ प्राप्तत्त्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन या । यद्वा मायासंसारवा- साभ्यां सकाशादवति रक्षतीति । नवालानवद्वारं भुजी वस्त्र तस्य संयोधनम् । आली किंभूता । आनना कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः बामस्खाइवं गइयं सम्मात् । हे श्रीप्रभव लक्ष्मीस मुत्पत्तिस्थानेति पृथग्जिनामन्त्रण बा । आली क फुर्वाणा । दधती । कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतिलात्सशब्दा । असी प्रत्यक्षा । अन- बरतमजलं रसायां पृथिव्यां लीना बालाः केशा यस्याः सा । एतेन भवत्याधिक्य सूचि- तम् । नवा कतिपथदिनप्राप्तबोधिः अस्मदादिवत् । अहो रयामन्त्रणे ॥ पूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोमां या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्रासमानापतिमदभवती हारतारा जयन्ती ॥ ४६॥ पूतः पवित्रो यत्पादपांशुश्वरणरेणुः सुरसमूहस्य मस्स के चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिखापत्रा तापमैत्री । असमाना गुणैरनन्यसदशी । प्रतिमदं प्रतिगत- मदं निर्मवमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभा लम्भयन्ती । सा तती रजः कम से तव प्रविकिरतु क्षपयतु । किविशिष्ट । जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्रि- पत्, त्रासस्वाकस्मिकं भयम्, मानो गर्यो यस्याः सा । कीर्तेः कान्या जयन्ती अभिभ- पन्ती । 'काः । हारतारा मुकावलीनक्षत्राणि ॥ नित्य हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा- पायायासाधमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे पापायासाप्रमानामदनत बसुधासार याहितानि ॥ १७ ॥