पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। १४१ ज्वला । हे अभ्यारूढे । क्व । द्विपेन्द्र । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इस श्वेता भा यस्य तस्मिन् । खायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्य तस्मिन् । अराति३री सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपङ्ख्या प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिर्जिनो हे दयावन् जन, तव समृद्धिं कियात् । भासुरं घोरमालीनमाश्रित तपोऽनशनादिरूपं यस्य सः । यः स्वामी अवनरक्षन् योगिन्देन प्रकर्षेण नतः । थोगि- पतया कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ ३४ ॥ या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अल- मत्यर्थं मुदं प्रीतिं दिश्याइद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजन- शीलाः नाना बहुविधाः अमलाः पनमाला यस्य तत्पादयुगम् ।। जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्थतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता। भकैरथविकल्पैगंभीरा तथा आशु शीघ्रं तमोज्ञानं निर्नाशयन्ती । केन । शस्यतमश्चारतमो यः स्तवस्तेन हेतु- भूतेन शुभा प्रकृष्टा । तब कीदृशस्य । अरतीशस्थाकामस्य । है इन खामिन् । दिव्यात्तवाशु ज्वलनायुधाममध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६ ।। तव ज्वलनायुधा देवी के सुखं दिशात्करोतु । किंभूना । अल्पं तुच्छे मध्यं मध्य- भागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्खे- न्दुन्यकृतमृगाका । कया । आस्यस्य मुखस्य रुचा कान्या । उरु विस्तीर्ण पृष्ठमध्या- सिताध्याता कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥ जयति शीतलतीर्थकृतः सदा चलनतमरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशञ्चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ शीतलतीर्थकरस्य बलनतामरसं पादप- जयति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । धनं सारम् । जलनतामरस