पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। विधुतारा हे जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरण वा अरो श्रम- जमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्वलाः । सदानाः सत्यागाः । जितम- घातं घातवर्जितमय पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णा मानवानां नद. विभवो नवः प्रत्ययो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः ।। मतिमति जिनराजि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं सरासराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते । नराणामाहितं पूरितमी हितं वाञ्छितं येन तस्मिन् । रुचिता परेपो प्रमोदकारित्वादभीष्टा रक्कान्तियस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनु- तुच्छमूनमपूर्ण च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमतः प्राणिनः । जातावकत्वम् । सुमतो रक्षाक्रियायां सुछु अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । धनधनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ अहो इति संबोधने विस्मये वा । काली देवी मामवतादक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा। कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । धनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये । ऊना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद- मुन्मुद्रतामरसदामलतान्तपात्री । पाअप्रभी प्रविदधातु सतां वितीर्ण- मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविधातु । किंभूतां । दलितं विकसितं अदर्ज उद्वत्कोमला । उन्मुद्राणि विकसित्तानि तामरसदामानि कमलमाला लद्वान्तानि कुसु- मानि तेषां पाश्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वालताखासा- मन्तपात्री समीपभाजनम् । सतां वितीर्णमुदत्तप्रीतिः । मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तानलानान्यातीति मलतान्तपात्री ॥ सा मे मतिं वितनुताजिनपतिरस्त- मुद्रा गतामरसभासुरमध्यगाद्याम् । रलांशुभिर्विदधती गगनान्तराल- मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२ ॥