पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यहा परमुदरं यस्य । हे सुरव, जगदाहादियात् ....... । परमः प्रधानोऽदरो निर्भयश्च ।। जिनवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्यं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतयोगाः। पुनः किंभूताः । महान्ति परीणि चक्राणि धर्मचकलक्षणानि येषां ते । किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितलम् । अमतावनभिप्रेती मोहसनामों येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैमनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । मलधुतां नय निर्मथितोद्धताजिनवरागमनोमवमाय तम् ॥ १५ ॥ यो भवोऽसुमता मृतिजाती मरणजन्मनी ते एवाहितमपथ्र्य तसै मरणजन्माहि- ताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लधीयस्त्वं प्रापय । आजिः सझामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजी नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्गामनून- नरागकाममाय॥ विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुषा मण्डितहखा रोहिणी देवी नम । किंभूतेन । शरशासहितेन । अस्ता ध्वस्त्रा सत्सुराणां प्रकृटदेवानां भीउँन । तताः प्रसता नुन्नाः प्रेरिता महान्तोऽरयो येन । परि- गतां परिवारिताम् । विशदा शुक्लवर्णाम् । इहान जगति रोहिणी रोहिण्यमिधानाम् । सुरभिर्गोस्खन याता प्राप्ता तनुर्यस्यास्तां देवीं नम प्रणिपत । धनुषा किंभूतेन । हारिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षतातः पातः ॥ १७ ॥ हे मदकामाभ्यां त्यक, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरा- दिहलोकादिभेदमिनसाचसापालय रक्ष । हे सुमतेन सुसिद्धान्तखामिन् । यद्वा सुम- तेन करणभूतेन । हे अपालय अपगतनिलय । है कनकतार तपनीयोजवल । हे इतारे गतशात्रय । हे पातनायक । अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकलात्क्षपा रात्रिस्तस्याः॥ विधुतारा विधुतारा सदाः सदाना जिना जिताधाताधाः । तनुतापातनुतापा हितमाहितमानवनवविभवा विमवाः ॥ १८ ॥