पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्ध्वजमस्य यः । स्तुतजनाः सुविधि कुदृशां सुरस्तुतमसंतमसं तपसंस्तुतम् ॥ २॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजग्दशमोत्तरः । कनकदीप्तिरमर्षित हीरकस्तव रदो वरदो वर दोर्युगः ॥ ११ ॥ शुममयी वसुपूज्यसुतप्रभो भुवननेत्रमहो महिपाक्षिता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ १२ ॥ सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते । अपि शमं नवते तव गीर्जितामृतरसा तरसा तरसा तृपम् ॥ १३ ॥ निजयशोभरनिह्नुतजाह्नवीजलवलक्षितकीर्तिरनन्तजित् । दिशतु वः कुमतासुरनिग्रहे भृशमनःशमनः शमनश्वरम् ॥ १४ ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजःशमं वरसिता रसिता रसिताजुपा ॥ १५ ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्धनरसा नरसा न रसा न किम् ॥१७॥ जगदधीश सुदर्शनभूमिपान्वयपयःसरिदीशशिखामणे । प्रणिधेऽन्तिपदो विषदव्रता वनरता न रता नर तावकान् ॥ १८॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो पियाम् ॥ २०॥ विरतिवर्मतटावतिकुण्ठितसरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बुधबहणवजनभाजनमाजनभावभाव ॥ २१ ॥