पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पार्श्वस्तवः । अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियचिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि ताबकात् ॥२४॥ च्युतजनुर्व्रतकेवलनितिक्षणदिनाददता मुदमार्हता । व्यरचि यैरुपयस्त्रिदशैर्दृशा नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्तिभित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा भरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरव कौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८॥ करकृताम्रफला पृणती जिनप्रमवतीर्थमिभारिमधिष्ठिता । हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तवः ।

श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः। अधियदुपनमन्तो यात्रिका प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्धिस्ता(स्था)नक्लृप्तावतार- त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १॥ जिनविभुरविभाव्यं वैभवं भूरि बिन- द्भवतु भुजगभोगाभोगविभाजिमौलिः ।