पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहावीरस्वामिस्तोत्रम् । निःसीमभीमभवसंभवरुढगूढ- संमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूर- मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ मिन्दन्तमन्तरणकारणमन्तरायं संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं वीरं नमामि नवहेमसमिद्धकायम् ॥ १४ ॥ वन्दारुवासवसुरासुरभालुरालं कारामलच्छविपरागसमुद्भुराणि । सेवामि ते चरणवारिल्हाणि भूरि- संदेहरेणुहरणोरसमीर वीर ॥ १५ ॥ अञ्चामि ते चरणतामरसालिलीला संघायि पञ्चममहागणधारिवाणी (१)। संबन्धबुद्धिकरुणालयलिङ्गसिद्ध- संघावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ (१) उच्चण्डधारकरवालकरारिवार- विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविमिन्नपरासुदेहे कालसंकुलभयावहभूमिभागे ॥ १७ ॥ सावेगहुंकरणडामरमुण्डरुण्ड- कीलाललालसविहंगकुलावरुद्धे । आबद्धबाणविसरे सहसा नुवन्तो वीरं नरा रणभरेऽरिबलं यजन्ति ॥१८॥ (युगलकम् ) आसन्नसिद्धिकमलापरिरम्भलम्भ- दम्भोलिपाणिमिव मोहगिरि किरन्तम् ।