पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ काव्यमाला। गम्भीरसंभवजरामरणोरुनीर- संसारसागरतरीकरणिं च वीरम् ॥ ६॥ (युग्मम्) उद्दामकामभरभङ्गुरमङ्गभङ्ग- संसङ्गबन्धुरमुरोरुहभारखिन्नम् । देहं सलीलपरिरिक्षणमनुशिजि- मञ्जीरचारुचरणं सरसं वहन्ती ॥ ७ ॥ संगेयताललयचक्षुरचारचारी- संचारिणी करणबन्धकलासु सज्जा । उन्नालनीररुहकोमलबाहुवल्ली भल्लीव विद्धबहुकामिकुरङ्गसंघा ॥ ८ ॥ हेलाविलोलमणिकुण्डललीढगल्ला ककेलिपल्लवकरा वरकम्बुकण्ठी केलीललामरमणी रमणीयहावा नालं निहन्तुमिह ते विमलाभिसंधिम् ॥ ९॥ (विशेषकम्) संचारिकिंनरगणारवरेणुवीणा- संरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरूहकुघीकुदेव- संबद्धबुद्धहरणी तब देव वाणी ॥ १० ॥ संदेहदावजलवाहमजीवजीव- भावावमासतरणिं भवसिन्धुनावम् । आगामिकेवलरमातरुणीविवाहा देवागमं तव नरा विमला वहन्ति ॥ ११ ॥ देवा महापरिमलं तरलालिजाल. शंकारहारि तव वीर सभासु भूरि । फुल्लारविन्दनबसुन्दरसिन्दुवार- मन्दारकुन्दकबरं कुसुमं किरन्ति ॥ १२ ॥