श्रीमहावीरखामिस्तोत्रम् ।
श्रीजिनवल्लभसूरिविरचितं
समसंस्कृतप्राकृतं
श्रीमहावीरखामिस्तोत्रम् ।
भावारिवारणनिवारणदारुणोरु-
कण्ठीरवं मलयमन्दरसारबीरम् ।
वीरं नमामि कलिकालकलङ्कपङ्क-
संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १ ॥
बाद विसागिरिमा महिमा तबेह
बुद्धो न देवगुरुणा न पुरंदरेण ।
तं कोऽवगन्तुमखिलं जडिमालयोऽह-
मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥
सन्तो गुणा गुणिगुरो तव हासहंस-
नीहारहारधवला बहुलीभवन्ति ।
ते सोमसूरहरिहीरबिरश्चिबुद्ध-
मायाविदेवनिवहेन मलीमसा बा ॥ ३ ।।
देवं भवन्तमवहाय दुरन्तमोह-
संच्छन्नवुद्धिमिहिरा इह भूरिकालम् ।
संसारनीरनिलये बहु संसरन्तो
विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४॥
सासूयसंगमसुरोरुससूढदम्भ-
संरम्भसंतमससंच्यचण्डभासम् ।
हिंसासरोरुहतमीरमणं चिरोटा-
हंकारकन्दलदलीकरणासिदण्डम् ।।५।।
वन्देऽहमिन्दुदलमालममन्दभद(?)-
संदोहमन्दिरबरं दरकन्दकोलम् ।
१. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरसभ्यं दसम.
पुस्तकान्तरं टीका पां नोपलब्धेति चित्कचित्संदेहो वर्तते ।
का.स.गु०