पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनामाढायोगसाध्यं ध्यायामि । श्रुतं हि द्विधा- अजप्रविष्टमननप्रविष्टं च । .. यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥४१॥ यस्या अद्याप्येकोनषोडश पञ्चदशादेशाः स्वमादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्डसिद्धनाभृतवसुदेवहिण्डींश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्प्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ १३ ॥ कर्मखरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरि- चरितानि प्रकरणानि चिर परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दु- प्रामाणि ॥ व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिकं मिथ्याग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्कारोमि ।। ४५ ।। कृतपापतिरस्कारा सर्वसिद्धान्तमध्यगां पञ्चनमस्कृति पश्चनमस्कार शासनप्र: प्रथमं निमित्तमाचार्यमन्नं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथा गुणगणकयां कण्ठे कुर्याजिनामवस्य यः। वितरतितरां तसै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुण "माहात्म्यादयस्तेषां गणः समूहस्तस्य कयां अल्पनमेतत्तवरूपों कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्खता फलानो 'कुत्रचिनगरे बहुपअपरि-