पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्त तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं य एतदानयति तद्धर्ममहं प्रतिपय इति । यदा परतीर्थिकरुपक्रमेणाप्यादातुं न शक्तं मंत्रिणा जैनर्षिराकारितः । तेन च सचित्तजलास्पर्शिना (2) त्रिः प्रदक्षिणीकृत्य पालिस्थे- नैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययन पेठे । ततस्तत्पुण्डरीकमुत्पत्य राशो के पपात । तदतु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै श्रुतदेवता वर वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अन्न पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रमेति खनामाभिहितवान् ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमतवः ।

आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकसिकीयं प्राप्ता मोहस्य घाटी तडिदिव विषमा हा हताः कुन यामः ॥ १॥ एकेनापि महाव्रतेन यतिनः खण्डेन भनेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्ला तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥२॥ कल्यां चोलपटं तनौ सितपटं कृत्वा शिरोलञ्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिर्ष वेषाडम्बरिणः खजीवनकृते विद्मो गति नात्मनः ॥ ३ ॥ मिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणवते कष्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्, २. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छ- मण्डनायमानजङ्गमयुगप्रधानभधारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुर- मलकुर्वनिर्दत्तमस्ति. तत्र व पुस्तके कषुर्नाम नास्ति.