पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तागमस्तवः। यमानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचार- खत्प्रतिपादको प्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको अन्योऽपि व्यक- हारः । ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥ षट्सप्तपङ्क्तिविंशतिषड्गुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पञ्चकल्पो नः ॥ ३६॥ षट् सप्त पतिर्दश विंशतिः षड्डणसह विचलारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्यात् ॥ लेभे यळ्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ ३७॥ अन्त्येनापि ययवहारेण यदाचारेणाधुना मुख्यता लेभे । एतदाधारेणैव प्रायश्चित्त- विधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये । व्यवहाराः पश्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । । एवं जीतव्यवहारोऽन्त्यः॥ अञ्चामि पञ्चतनवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ ३८ ॥ पश्चननवतिः पश्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरषाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकलात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ।। नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका । सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ ३९ ॥ नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्य सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुस्कानुक्त- दुरुक्तार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पनक विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नचेतसि सततं निवसन्तु । परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकामेदम् । ध्यायामि दृष्टिचादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥१०॥ परिकम सप्तमेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शन्दतो गण- घरच पूर्व रचित्तलात पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उतशेषशाया (१) एते. पत्र मेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्त ध्यायामि । च पुनर-