पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

इंशानशिवगुरुदेवपद्धतौ [मन्त्रपादः मधुरं भजन भगदिने (च)

भुजगतिथिशुक्रवारयोः ।
बिल्वफलसहितपायसभुग्
लभतेऽच्छपर्वणि कुलोद्गतां श्रियम् ॥ २७ ॥ उद्गता । 

सघृतौदनेन च घृतेन सितसरसिजैः सपायसैः। बैल्वपत्रफलसौरभकै रयुतैर्हतैः स लभतेऽचिराच्छ्यिम् ॥ २८ ॥ सौरभकम् ।

अभिषेचयेदथ जपेञ्च
यजतु स च सूक्तकैः श्रियः।
हुतविधिमपि पदशस्तनुतां 

ललितां विभूतिमचिरेण सोऽनुश्रुते ॥ २९॥ ललिता। नन्द्यावर्तकपुण्डरीककुब्जकपुष्पै. रुदिते सवितरि यो जुहोति नित्यम् ।

जपति च दशशतकं
प्रचुपितबहुधनपशुभिः स सुखी स्यात् ॥ ३० ॥ 

उपस्थितप्रचुपितम् । चतुर्हस्तिविधानम्। युद्धहालले नमो फ वा श्रीशे नमः (!)। ' ऋष्याद्यं च पुरोदितं समानमिह स्यात्

प्रतिवासरमपि वर्धमानभक्तिः ।
गलमितसलिलगतस्त्रिनियुतमनुमिह यः
प्रजपति धनमिह विपुलं लभतेऽसौ ॥ ३१ ॥ वर्धमानम् ।

श्रीरेखाविधानम्। ्रद्ब्रह्माथ विषं मही जलं च सदीर्घं

नयनान्वितभृगुवर्णमन्ततोऽन्यैः । 

१. 'तः', १. 'नम् । ह' ग. पाठक