एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
इंशानशिवगुरुदेवपद्धतौ [मन्त्रपादः मधुरं भजन भगदिने (च)
भुजगतिथिशुक्रवारयोः । बिल्वफलसहितपायसभुग् लभतेऽच्छपर्वणि कुलोद्गतां श्रियम् ॥ २७ ॥ उद्गता ।
सघृतौदनेन च घृतेन सितसरसिजैः सपायसैः। बैल्वपत्रफलसौरभकै रयुतैर्हतैः स लभतेऽचिराच्छ्यिम् ॥ २८ ॥ सौरभकम् ।
अभिषेचयेदथ जपेञ्च यजतु स च सूक्तकैः श्रियः। हुतविधिमपि पदशस्तनुतां
ललितां विभूतिमचिरेण सोऽनुश्रुते ॥ २९॥ ललिता। नन्द्यावर्तकपुण्डरीककुब्जकपुष्पै. रुदिते सवितरि यो जुहोति नित्यम् ।
जपति च दशशतकं प्रचुपितबहुधनपशुभिः स सुखी स्यात् ॥ ३० ॥
उपस्थितप्रचुपितम् । चतुर्हस्तिविधानम्। युद्धहालले नमो फ वा श्रीशे नमः (!)। ' ऋष्याद्यं च पुरोदितं समानमिह स्यात्
प्रतिवासरमपि वर्धमानभक्तिः । गलमितसलिलगतस्त्रिनियुतमनुमिह यः प्रजपति धनमिह विपुलं लभतेऽसौ ॥ ३१ ॥ वर्धमानम् ।
श्रीरेखाविधानम्। ्रद्ब्रह्माथ विषं मही जलं च सदीर्घं
नयनान्वितभृगुवर्णमन्ततोऽन्यैः ।
१. 'तः', १. 'नम् । ह' ग. पाठक