पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे विंशः. पटलः।

निधियुगमथ लक्ष्म्याः 

पदकमलमनुजलभवाह्वम् । अनवरतवमदलघुमणिवसुधारं स्मरतु स निजवपुरलमधिकधननिचयपूर्णम् ॥ २१ ॥ प्राग्वत् । ध्यायेद् यदि सकृदपि लभ्यं धनमिह किमपि भवति । नित्यं यजति च जपहुतविधिपर इह

प्रत्यादिशदिव धनपतिमिव धनमधिगमयति ॥ २२ ॥ प्रत्यापीडः । संसाधयति हि लक्ष्मीं
नमो न विशतु जलमपि निद्राम् । . . 

नेयादशुचिरवनितलशयनमथासौ

तैलार्द्रिततनुर्न चरति किमपि न मलचितदेहः ॥ २३ ॥ प्रत्यापीड एव । तिलरसलवणप्रत्यक्षसेवां
बैकुण्ठं चापि वर्जयेत् । 

कमलमपि बिल्वं शीर्णा

पदा च नसंस्पृशेत्सरसिजभवं बीजं नाद्यान्न भिनत्ति कुसुममञ्जरीम् ॥

[* मञ्जरी। नच्छिन्द्यात् तृणमपरं च धरां न लिखेद् वृथा

न च मुंखे रजनीमनुलेपयेद् । । 

पञ्चम्यामपि सप्तम्यां

भगदिने च लवणामलकाम्ललवलीः परिवर्जयेत् ॥ २५॥ लवली । स्नातोऽनुपहतशुचिधवलाम्बरकुसुमगन्धधारी
प्रातर्लक्ष्मीपुष्पशिराः । 

भक्षः स्याद् वचनैः सर्व जनम नुगृह्णन् हृदयङ्गमैः प्रीत्येवामृतधाराभिः ॥ २६ ॥ अमृतधारा ।

  • निति नाम दृश्यते ।