पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः प्रदीपपालीकलशैस्तथा चैवाष्टमङ्गलैः।

स्रग्दासशोभाविपुलैमण्डलं तदलं शुभम् ॥ ११ ॥ भकारविपुला ।
सिंहासनं तस्य मध्ये सुवर्णमणिभासुरम् ।
सिताम्बुजं केसराढ्यं विपुला कर्णिका परा ॥ १२ ॥ रविपुला । तत्पद्मदिग्दलगतान् वासुदेवादिकान् यजेत् । प्रोक्तवर्णायुधधरानम्भोजविपुलेक्षणान् ॥ १३ ॥ नविपुला ।
कोणच्छदस्थान् पूर्ववद् गजान् गुग्गुलपूर्वकान् ।

चतुर्विषाणाढ्यान् सितान् विपुलाङ्गान् यजेत् ततः ॥ १४ ॥ ते गुग्गुलुगुरण्डदमकशलयः। सौवर्णसौधकलशैः शिरस्युत्क्षिप्तपुष्कराः ।

सिञ्चन्ति तेऽमृतजलैर्विपुलानन्दनां तु माम् ॥ १५ ॥ नविपुला । 

ततः श्रियं च जगतां मातरं पूर्ववद् धिया ।

समग्ररूपविभवां कर्णिकायां स्मरेदिमाम् ॥ १६ ॥ प्राग्वत् । दोर्भिश्चतुर्भिस्तामूर्ध्वे पुण्डरीकद्वयीधराम् ।
वराभवाढ्यां वामादिविपुलां तेजसोसमाम् ॥ १७ ॥ इयमपि विपुला । नवपद्मान्तराभासां हेमाम्भोजनिभाननाम् ।
सितगन्धाम्बरां माल्यैर्युतां विपुलतेजसम् ॥ १८ ॥ विपुला । सुवर्णवर्णामुत्तुङ्ग चारुपी(नावर)पयोधरयुगलाम् । शरदखिलेन्दुबिम्बकमलकोमलमुखीम् अखिलभुवनजनवन्दितपकजपदचतुरूर्ध्वा॑म् ॥ १९ ॥ पदचतुरुर्ध्वा॑ । करमिततनुमध्यां विकसितकुवलयकमलाक्षीम् । अलिकुलरुचिरुचिरचिहुरभरबन्धां 

स्मरति यदि निजह्र(ति:दि) स भवति गतसकलपीडः ॥ आपीडः। 1. प. ग. पाठः, २. जकर्णिकाव्यं' क, पाठ.. ३. 'दमल' क. ख. 'भनवतवमरवमलद्यु' ग. पाठः