पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

चतुर्हस्त्यादिविधानम्] पूर्वार्धे विंशः पटलः । स्वाहान्तदशार्णको मनुः श्रियमिह जनयति जपशुद्धविराड् यः ॥ ३२ ॥ शुद्धविराट् ।

ऋषिरस्य तु दक्षं इतीरितः
सा च विराट् कथिता ह्युपचित्रा। 

कमला कमलोदरवासिनी दैवतमक्षरलक्षमुपास्या ॥ ३३ ॥ उपचित्रकम् । देव्यै नमः । पद्मिन्यै नमः । विष्णुपत्न्यै नमः । वरदायै नमः । कमलरूपायै नमः। पञ्चवेिधाङ्गमनूनि यथावत् क्रमपठितानि पुरेव विधानम् ।

नित्यमिमां तु भजेत् तु नरो यः श्रियमचिराल्लभते द्रुतमध्याम् ॥ द्रुतमध्या।
आढ्यतमः स भवेदिह बिल्वैः सरसिरुहैरपि वायुतशो यः ।
पष्टिदिनानि ततो द्विगुणं वाप्यनलमुखे जुहुयाञ्च जपेत् तम् ॥ प्राग्वत् । कमलां भजते दिनशो यो ध्यानपरो यजनेन च होमैः । उदितव्रतधारणनित्यो वेगवती स जहात्यधनार्तिम् ॥ ३६ ॥ वेगवती।। शुक्लैः कुसुमैर्यथोपलब्धैर्नन्द्यावर्तसितोत्पलाम्बुजायैः । 

नित्यं जुहुयात् सहस्रसंख्यं स स्याद् भद्रविराडिवार्थनाथः ॥ भद्रविराट् ! गुळेदुग्धगव्यसितपद्मबिल्वफलैः पयोन्नघृतमिश्रैः । जुहुयात् त्रिमासमरिसेनां केतुमती जयेदपि, तथोर्वीम् ॥ ३८ ॥ केतुमती। ____ कमलांवासिन्यधिकारः। - इह तन्त्रविशेषसमीरिता निगदिता मनवः खलु ये श्रियः ।

भजतां समकर्मफलोदयं ननु भवन्ति यथा हरिणप्लुतम् ॥ ३९ ॥ हरिणप्लुतम् । 

इति सरसिजवासिनीमनूनां निगदितमेकतरं तु साधयेद् यः । प्रथयति कुलमस्य तं च लक्ष्मीर्गुहगतकल्पलतेव पुष्पिताग्रा ॥ पुष्पिताग्रा। इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्र सारे चतुर्हस्त्यादिपटलो विंशति(तम):।