पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: अथानुष्टभि ।

कर्णिकागतं लिखेत रक्ष्यमष्ट तद्दलेषु ।

साधिवह्निनेत्रदण्डमन्तिमं समानमेव ।। ८७॥ समानी।

षोडशच्छदेष्वथास्य मूलमन्त्रमालिखेत । 

रागसंख्यपत्रकेषु पाशमङ्कुशं क्रमेण ॥ ८५ ॥ प्राग्वत् । मातृकाक्षराण्यथोऽष्टवर्णकामशक्तिभिश्च ।

माजपार्णतारकांश्च तद्बहिः क्रमाल्लिखेत ।। ८६ ॥ 

तद्धिरण्यताम्रनालवेष्टितं गुलीकृतं तु ।

पद्मपट्टतन्तुना च हेमवेष्टितं क्रियेत ।। ८७ ॥ प्राग्वत् ।
सरोजमण्डलेऽथ तां विचिन्त्य पूजितां धिया । 

श्रियं सहैव विष्णुना प्रमाणबुद्धिरुद्वहेत् ॥ ८८ ॥ प्रमाणी। लक्ष्मीकरमायुष्करमेतज्जयचक्रं त्विह । रक्षाधनसम्पत्क्षितिपुत्रादिवितानं खलु ॥ ८९ ॥ वितानम् । निखिलारातिजयार्थ गुणकोणेऽनलकुण्डे । मणिचित्रे सविताने श्रियमावाह्य तु कृष्णाम् ॥९० ॥ मणिचित्रा । शरखड्गादिभिरस्त्रैर्बहिरास्तीर्य तु वह्नौ । जुहुयादक्षसमिद्भिर्नवराजीघृतसेकम् ॥ ९१ ॥ प्राग्वत् । रूषितोऽरिं प्रतितिष्ठन् रिपुसंज्ञापुटसंस्थम् ।

मनुमुच्चार्य हनाभ्यां कवचास्वाग्नियुवत्या।। ९२ ॥ प्राग्वत् । अपिपिष्टायुधपक्कैः परमान्नेन च हुत्वा ।
विजयेदिन्द्र इवारीनपि मासात् किमुताब्दात् ॥ ९२ ।। प्राग्वत् । 

इति ह श्रीहृदयाख्यः कथितः कल्पकवृक्षः ।

त्रिजगत्सारमणिर्वा भजतां चिन्तितदोहः ।। ९३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीहृदयाख्य

एकोनविंशः पटलः । ... पि', १. 'स्तु' क. पाठ.. ३. "णि' ख. पाठः. ५. 'त्याम्' क. ग. पाठः.