________________
ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: अथानुष्टभि ।
कर्णिकागतं लिखेत रक्ष्यमष्ट तद्दलेषु ।
साधिवह्निनेत्रदण्डमन्तिमं समानमेव ।। ८७॥ समानी।
षोडशच्छदेष्वथास्य मूलमन्त्रमालिखेत ।
रागसंख्यपत्रकेषु पाशमङ्कुशं क्रमेण ॥ ८५ ॥ प्राग्वत् । मातृकाक्षराण्यथोऽष्टवर्णकामशक्तिभिश्च ।
माजपार्णतारकांश्च तद्बहिः क्रमाल्लिखेत ।। ८६ ॥
तद्धिरण्यताम्रनालवेष्टितं गुलीकृतं तु ।
पद्मपट्टतन्तुना च हेमवेष्टितं क्रियेत ।। ८७ ॥ प्राग्वत् । सरोजमण्डलेऽथ तां विचिन्त्य पूजितां धिया ।
श्रियं सहैव विष्णुना प्रमाणबुद्धिरुद्वहेत् ॥ ८८ ॥ प्रमाणी। लक्ष्मीकरमायुष्करमेतज्जयचक्रं त्विह । रक्षाधनसम्पत्क्षितिपुत्रादिवितानं खलु ॥ ८९ ॥ वितानम् । निखिलारातिजयार्थ गुणकोणेऽनलकुण्डे । मणिचित्रे सविताने श्रियमावाह्य तु कृष्णाम् ॥९० ॥ मणिचित्रा । शरखड्गादिभिरस्त्रैर्बहिरास्तीर्य तु वह्नौ । जुहुयादक्षसमिद्भिर्नवराजीघृतसेकम् ॥ ९१ ॥ प्राग्वत् । रूषितोऽरिं प्रतितिष्ठन् रिपुसंज्ञापुटसंस्थम् ।
मनुमुच्चार्य हनाभ्यां कवचास्वाग्नियुवत्या।। ९२ ॥ प्राग्वत् । अपिपिष्टायुधपक्कैः परमान्नेन च हुत्वा । विजयेदिन्द्र इवारीनपि मासात् किमुताब्दात् ॥ ९२ ।। प्राग्वत् ।
इति ह श्रीहृदयाख्यः कथितः कल्पकवृक्षः ।
त्रिजगत्सारमणिर्वा भजतां चिन्तितदोहः ।। ९३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीहृदयाख्य
एकोनविंशः पटलः । ... पि', १. 'स्तु' क. पाठ.. ३. "णि' ख. पाठः. ५. 'त्याम्' क. ग. पाठः.