पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः


दिशां व्रतं दशानुगानम् ॥६.३.७.१॥

यदों हिरण्यस्य (सा. ६२४) इत्येकस्यामेव स्तोभविशेषान्नानासा- मान्युत्पन्नानि । एवं दशानुगानं दशानामनुगानानां समाहारः दशानुगानम् । तदिशां व्रतमित्यभिधीयते । समुदायापेक्षया एकवचनं नामधेयैक्यं च । तानि सामरूपाणि अनुगानवच्छन्दःसामानुसारेण दर्शयामः ।।

हाउ (त्रिः) अहमन्नमित्यादि यद्व!हिरण्य । स्या (आ. गा. ५. ७. २२९) इति मन्द्रद्वितीया (द्वितीयक्रुष्टा ?) दिकम् आद्यम् । हाउ (त्रिः) । अहंसहो इत्यादि यद्व?हिरण्य (आ. गा. ५. ७. २३०) इति द्वितीयादिक द्वितीयम् । हाउ (त्रिः) अहंवों इत्यादि यद्वः (आ. गा. ५. ७. २३१) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं तृतीयम् । हाउ (त्रिः) अहंतेजः इत्यादि यद्वर्चः (आ. गा. ५. ७. २३२) इति मन्द्रद्वितीया (द्वितीयक्रुष्टा ?) दिक तुरीयम् । हाउ (त्रिः) दिशंदुह इत्यादि यद्वर्चः (आ. गा. ५. ७. २३३) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं पञ्चमम् । हाउ (त्रिः) मनोजयित् इत्यादि यद्वर्चः (आ. गा. ५. ७. २३४) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं षष्ठम् । हाउ (त्रिः) वय इत्यादि यद्वर्चः (आ. गा. ५. ७. २३५) इति द्वितीय- क्रुष्टादिकं सप्तमम् । हाउ (त्रिः) रूपम् इत्यादि यद्वचः (आ. गा. ५. ७. २३६) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकम् अष्टमम् । हिहियऊ इत्यादि