षष्ठाध्याये तृतीयपर्व (६) २५५
(द्विः) वागीयम् । कयानश्चित्रआभूवात (आ. गा. ५. ६. २२६) इति अचमद्वितीयादिकम् । मन्ये वां द्यावापृथिवी (सा. ६२२) इत्यत्रैक साम । प्रतिष्ठासिप्रतिष्ठा इत्यादि मन्येवां (आ. गा. ५. ६. २२७) इति द्वितीय- अष्टादिकम् । एतानि ऋग्द्वयाश्रितानि त्रीणि लोकानां व्रतानि ॥ २॥
किं कस्य व्रतमित्यपेक्षायाम् तद्विभागं दर्शयति--
दिवोऽन्तरिक्षस्य पृथिव्या इति ॥ ६.३.६.३ ॥
आद्यं दिवः धुलोकस्य व्रतम् । द्वितीयम् अन्तरिक्षलोकस्य व्रतम् । अन्तरिक्षेसलिलल्लेलाया इति हि निधने अन्तरिक्षे-शब्दः श्रूयते । पृथिवी- (व्याः?) तृतीयम् । पृथिव्यास्तत्र प्रतिष्ठापदं विद्यते । पृथिवी सर्वेषां प्रतिष्ठा खलु । इति-शब्दो वाक्यसमाप्त्यर्थः ॥ ३ ॥
अथापरम् । द्यावापृथिव्योर्विपरीते ॥ ६.३.६.४॥
अत्र विकल्पं दर्शयितुं प्रतिजानीते अथापरम् इति । अपरं पुत्रा- (उक्ता?)ीदन्य[द्] मतं विद्यत इत्यर्थः । किं तदिति दर्शयति द्यावापृथि- व्योर्विपरीते इति । द्यावापृथिव्योर्लोकयोर्विपरीते उत्तरमाद्यपर्यायस्तेषां मते भवतः इति । आद्य पृथिव्या अन्तिमं द्युलोकस्येति ॥ ४ ॥
ऋश्यस्य साम व्रतं वा ॥ ६.३.६.५॥
हरी त इन्द्र श्मश्रुणि (सा. ६२३) इत्यत्रैक साम । हरीतइन्द्र- श्मश्रूणी (आ. गा. ५. ६. २२८) इति द्वितीयक्रुष्टादिकम् ऋश्यस्य साम । अथवा ऋश्यस्य व्रतम् ॥ ५॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि षष्ठः खण्डः ॥ ६ ॥