पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः खण्डः


द्वे पुरुषव्रते पञ्चानुगानं चैकानुगानं च ॥ १ ॥

सहस्रशीर्षाः पुरुषः (सा. ६१७) इत्यादिषु षट्स्वृक्षु एकं सामोत्पन्नम् । उहुवाहाउ इत्यादि सहस्रशीर्षाः पुरूषाः (आ. गा. ५. '६. २१९) इति द्वितीयक्रुष्टादिकमेकम् । उहुवौहोवा इत्यादि त्रिपादूर्ध्व उदैत् पुरूषाः (आ. गा. ५. ६. २२०) इति द्वितीयक्रुष्टादिकं द्वितीयम् इयौहोवा इत्यादि पुरुषएवेदंसार्वाम् (आ. गा. ५. ६. २२१) इति क्रुष्ट- द्वितीयादिकं तृतीयम् । हाउहाउहाउ तावानस्य (आ. गा. ५. ६. २२२) इति द्वितीयक्रुष्टादिकं तुरीयम् । हाउ (त्रिः) वा ततोविराडजायत (आ. गा. ५. ६. २२३) इति द्वितीयक्रुष्टादिकं पञ्चमम् । हाउ (त्रिः) अस्मीनस्मिन् इत्यादि कयानश्चित्रआभुवात् (आ. गा. ५. ६. २२४) इति द्वितीयादिकं षष्ठम् । एतानि षडृगाश्रितानि सामानि द्वे पुरुषव्रते इत्यभिधीयते (न्ते ?)। तत्राद्यं पञ्चानुगानम् । पञ्चऋगाश्रितैः सामरूपैरनुगानैरुपेतम् । द्वितीयम् एकानुगानम् । एकऋगाश्रितेन सामरूपेणानुगानेनोपेतम् । इति समुदाया- पेक्षया द्विवचनम् ॥ १ ॥

त्रीणि लोकानां व्रतानि ॥ २ ॥

मन्ये वां द्यावापृथिवी (सा. ६२२) इत्यत्रैकं साम । हुवाइ इत्यादि रूपम् । मन्येवांद्यावा (आ. गा. ५. ६. २२५) इति क्रुष्टद्वितीया- दिकम् । कयानश्चित्रआभुवत् (सा. १६९) इत्यत्रैकं साम । वाक्