पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये तृतीयपर्व (५) २५३


ऋतुष्ठायज्ञायज्ञीयम् ॥ ६.३.५.३ ॥

वसन्त इन्नु रन्त्यः (सा. ६१६) इत्यत्रैकं साम वासन्तः (मा. गा. ५. ५. २१५) इति तृतीयमन्द्रादिकम् ऋतुष्ठायज्ञायज्ञीयं वसन्तादिषट्सु ऋतुषु वर्तमानमेतन्नामधेयम् ॥ ३ ॥

अजितस्य जितिः ॥ ६.३.५.४ ॥

अमि त्वा शूर नोनुमः (सा. २३३) इत्यत्रैक साम । हाउ (निः) हुए इत्यादि अभित्वाशरनोनुमोहस् (आ. गा. ५. ५. २१६) इति द्वितीय- क्रुष्टादिकम् अजितस्य जितिः। जेतुमशक्यस्यापि जयसाधनमेतन्नामधेयम् ॥४॥

सोमव्रतम् ॥ ६.३.५.५॥

संते पयांसि (सा. ६०३) इत्यत्रैक साम । ई (त्रिः) सन्तेपया (भा. गा. ५.५. २१७) इति क्रुष्टद्वितीयादिकं सोमव्रतम् एतन्नामधेयम् ॥५॥

दीर्घतमसश्च व्रतम् ॥ ६.३.५.६ ॥

अक्रान्त्समुद्र (सा. ५२९) इत्यत्रैकं साम । आयाउ इत्यादि अक्रन्समृद्रःप्रथमाइविधर्मान् (आ. गा. ५. ५. २१८) इति क्रुष्टद्वितीया- (तृतीया ?) दिकं दीर्घतमसो व्रतम् । चकारो वाक्यमेदद्योतनार्थः ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणभाष्ये षष्ठाध्याये तृतीयपर्वणि पञ्चमः खण्डः ॥ ५ ॥