पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठाध्याये तृतीयपर्व (७)

यद्वर्चः (आ. गा. ५. ७. २३७) इति क्रुष्टद्वितीयादिकं नवमम् । हाउ (त्रिः) प्रथे इत्यादि यद्वर्चः (आ. गा. ५.७.२३८) इति द्वितीयक्रुष्टादिकं दशमम् । एतेषां दिशांव्रतम् इति संज्ञा ॥१॥

कश्यपव्रतं दशानुगानम् । कश्यपग्रीवा द्वितीयम् । प्रजापतेर्हदयं पञ्चमम् । इडानां संक्षारः षष्ठः । कश्यपपुच्छं दशमम् । प्राग्दशमाद्गवां व्रते ॥ ६.३.७.२॥

यस्येदमा रजोयुजः[१](सा. ५८८) इत्यादिषु दश सामान्युत्पन्नानि । तेषां सामरूपाणामनुगानं नाम कश्यपव्रतम् इति । हाउ (त्रिः) हाइऊ इत्यादि यस्येदमारजोयुजाः (आ. गा. ५.८. २३९) इति द्वितीयक्रुष्टादिकं आद्यम् । हाउ (त्रिः) अहोअहो इत्यादि प्रजाभूतमजीजने इट्[स्थि] इडा (आ. गा. ५.८.२४०) इत्यन्तं स्तोभमात्रोत्पन्नं द्वितीयमनुगानं काश्यपग्रीव [1] नामकम् । हाउ (त्रिः) फाल् फल् इत्यादि इन्द्रन्नरोने- मधिताहवान्ताइ (आ. गा. ५.८.२४१) इति द्वितीयक्रुष्टादिकं तृतीयम् । हाउ (त्रिः) । हाउहौहौहौहौ इत्यादि योनोवनुष्यन्नमिदातिमार्ताः (आ. गा. ५.८.२४२) इति द्वितीयक्रुष्टादिकं तुरीयम। प्रजापतेर्हृदयं पञ्चममिति । हाउ (त्रिः) इमा इत्यादि प्रजारूपमजीजने । इट् [स्थि] इडा (आ. गा. ५. ८. २४३) इत्यन्तं स्तोभमात्रोत्पन्नं पञ्चमं प्रजापतेर्हृदयम् । प्रजापते ए हृदयम् इति साम्नि विद्यमानत्वात् एतन्नामकमित्यभिधीयते । इडानां संक्षारः षष्ठ इति । हाउ (त्रिः) इडा इत्यादि सुवर्ज्योतिः (आ. गा. ५.८.२४४) इत्यन्तं षष्ठमनुगानं स्तोभमात्रोत्पन्नम् इडानां संक्षारः इत्युच्यते । [सहस्तन्नइन्द्रदध्योजः (सा. ६२५) इत्यत्रैकं साम ।] हाउ (त्रिः) आइही इत्यादि सहस्तन्नइन्द्रदध्योजाः (आ. गा. ५. ८. २४५)

  1. https://sa.wikisource.org/s/1z4k शौअ ६.३३.१