पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये तदानीमल्पत्वात् तस्याः । तस्मात् जीवभुक्तिरेख वास्तवी । अस्तु तद्रेवें भुजाफलसंस्कारपक्षे कर्णभुक्तेः स्थूलवं, प्रतिमण्डलस्फुटकर्मणि कथं तस्याः स्थूलत्वमुपपद्यते । प्रतिमण्डलगतस्य ग्रहस्य योजनगतेः सदैव साम्यात् मध्यमकलाभुक्त्या त्रिज्याहतया कर्णहृतचैत्र स्फुटभुक्या भाव्यम् । यथा बिम्बकला मध्यकक्ष्यागता(त्रि१ त्रि)ज्याघ्नाः कर्णहृताः स्फुटकक्ष्या(गता) स्तस्य ग्रहस्य मानकळाः स्युः । एवं स्फुटगतेरपि कर्णवृद्धिहासवैपरीत्येनैव वृद्धिहासावुपपद्येते इति । मैवम् । तत्रापि त्रिज्यातुल्ये कणैः युज्यत एव मध्यमभोगादाधिक्यं स्फुटभेगस्य । कुतः । कर्णस्य वेगेन दासात् तदा नीमुच्चनीचवृत्तस्यापि हासाधिक्यात् तत्परिधिस्थस्य कक्ष्याप्रतिमण्डल केन्द्रस्य भगोलमध्याभिमुखमाकृष्यमाणत्वात् प्रतिमण्डलेचनीचवृत्तनेमि- सम्पातस्थे ग्रहोऽपि कक्ष्यामण्डलस्थमध्यग्रहाभिमुखमाकृष्यः इति तद्ध द्धस्य स्फुटसूत्रस्य तन्निमित्तो य भ्रमणवेगस्तेनांशेनाधिक्याद् योजनग तेर्युज्यत एव मध्यमभोगात् स्फुटभोगस्याधिक्यं तत्र । तस्मादुच्चनीचसम एव ग्रहे कर्णभुक्तेः सूक्ष्मता स्यात् । ततः क्रमेण वर्धमानं स्थौल्यम् ओजपदान्तं यावद्वर्धते । तदुत्क्रमेण क्षीयमणं स्थौल्यं युग्मपदान्ते शून्यत्वं चाप्नुयात् । तस्माज्ज्वीवासुक्तिरेख वास्तवी । यत्सूक्तं दूषणम् ‘अभि नरूपता भुक्तेश्वषभागविचारिणः रखेरिस्यादिना तन्न युक्त्यनुसारिणि जीवाभुक्त्यानयने स्पृशेत् । कथं तर्हि युक्रयनुसारितदानयनम् ’ रवीन्द्रः प्राग्गतेर्हि द्वावंशौ स्तः । तत्रैकोंऽशो भगणत्रैराशिकेनानीयते । स चैकस्य ग्रहस्य सदैव तुर्यः सदैव मध्यगतिः । इतरोंऽशो भुजाफलचापवेगः । स च प्रतिक्षणं भिन्नः । तमेव मध्यभुक्तौ संस्कृत्य स्फुटगतिरवगम्यते । ततः स एव तात्कालिके आनेयः । स्थिरत्वान्मध्यगतिः प्रतिग्रहमवधारितैव गणकैरितीतरां गतैव युक्तिरत्र प्रतिपाद्य। केन्द्रानयनमपि सुग(म?मम् । तद्भुक्तिश्रवधार्या । उच्चात् प्रभृति यावतिथे पदे कलायां वा ग्रहो वर्तते तदने दोकोटिज्ये व ते ? ३)ते । तयोर्युजाया वृत्ते? ३हासस्य वा यावांस्तात्कालिको वेग इतीह प्रथमं ज्ञेयैः । ततस्तत्फलवेगः, तत्संस्कृती मध्यवेगैः स्फुटगन्। एवमिह तदर्थकर्मक्रमः । केन्द्रपर्यय ओजपदादौ युग्मपदान्ते च चापगतिसमनैव दोज्यगतिरपि । ततः कोटिज्यादसानु १. ‘अ’ ॐ पाठः. २. ‘यम् ।' ख. पाठः, ३. ‘गः ए' क. पtष्ठ:,