पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः। ६१ रूपं नियतगतेश्चापस्य वेगादल्प एव दोज्यंगतिः । एवमोजपदान्तं याव शेर्यावृद्धिः क्रमेण हीयमाना पदेनैकेन शून्यत्वं प्राप्नोति, यतः खण्ड ज्यैव ज्यागतिः । तस्याः पुनभुजाकोट्योरोजयुग्मपदयोः क्रमेणेतरज्याहु सानुरूपहासः स्यात् । एतत्सर्वं गणितपादे विस्तरेण प्रतिपादितम् । अत्रेदं गैराशिकं— यदि ग्रहाक्रान्तचार्पदिगनुसारिणी कर्णसूत्रे त्रिज्यातुल्य प्रदेशस्य कोटिः केन्द्रकोटिज्यातल्या , तदा केन्द्रगतितुल्यस्य तत्सूत्रां- शस्य कियती कोटिरिति । (इति ?) सैव केन्द्रदोयीगतिस्ताकाळिकी। नन्वृ(जी १६नैव कर्णसूत्रेण भाव्यम्, वनैव हि केन्द्रगतिः । तस्माद् गणितपादोक्तन्यायेन केन्द्रगतिसम्बन्धिनी समस्तज्यैवेहेच्छात्वेन ग्राह्या इति । मैवम् । तत्र राश्यष्टमभाग(स्य)तुल्यस्य मखिसख्यस्थं भुजा कोटिखण्डानयने समस्तज्याया इच्छात्वमुक्तम् । इह तु तात्कालिक गतेर्जिज्ञास्यखात् न दिनकेन्द्रगतेरिच्छात्वम् । क(स्यां ? स्याः) तर्हि । क्षणमात्रसम्बन्धिन्या एव । तस्या (अल्पत्वादणुपरिमाणया तया न शक्यं व्यवहर्तुमिति सैव दिनक्षणगुणिता दिनकेन्द्रातिसाम्यमापादितै हेच्छा, यतः स्फुटगतिरपि तरक्षणजा दिनकालक्षणगुणिता ह्यत्रानीयते । एतदुक्तं भवति--अभीष्टक्षणे यावती स्फुटगतिस्तावत्येव षष्टिनाड्या मके सावनदिने सर्वेष्वपि क्षणेष्विति कल्प्यमाना दिनगतिरेव तात्कालिकी गतिरित्युच्यते । सैव कैश्चिद् वेलाभुक्तिरिति चोच्यते । याँ पुनरिछक्षणम भितः षष्टिनाडिकागतिः सा च प्रायेणैतत्समा । उचस्थे ग्रहे तु तन्मध्य दिनगतिः तत्काळगतेरधिकैव स्यात् , उच्चमभितः क्रमेण महत्त्वाद् गतेः। नचिप्राप्तौ तु तत्कालगतेरल्पैव तन्मध्यदिनगतिः, नीचविप्रकर्षवशादल्प त्वाद् दिनगतेः । कोव्याः शून्यत्वे तु तत्कालगतिसँमैव तन्मध्यदिन गतिः । न केवलं तन्मध्यदिनस्फुटगतिरेव तद्दिनमध्यगतिसमा , अपितु पक्षमासादिष्वप्ययमेव न्यायः प्रसरति । एतत् सर्वं चन्द्रस्फुटवाक्येषु द्रष्टव्यम् । तस्मादस्तमये चन्द्रोचयो(च१ ध) योग एव तदहोरात्रस्फुट गतिसमास्तमयिकी स्फुटगतिः, मकरादावल्पा कक्षीदावधिका च । ततो ऽयनान्तादन्यत्रास्तमयासज्ञकालगतिरेव तदहोरात्रगतिः। कदा तर्हि सा प्रदोषगतिः स्याद् इत्येतदपि खण्डज्यानयनस्त्रोक्तयुक्रया सेस्यति । क ४. ‘पादिग', २. ‘स्थ चापसयस्य क्षु' ख, पावः३. ‘यः', ४. 'स्' की. .