पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ३१ स्फुटतिथिविच्छेदसमं युक्तमिदं प्राहुराचार्याः ।।” इति तत्तत्सिद्धान्तेषु वारप्रवृत्तेः भगणादीनां च नानाप्रतिपादनेन नाना माण्यं तेषामित्यस्यार्थस्याभिप्रायः । महतां परस्परविरुद्धस्याभिधानं न दुष्टमित्यभिनेत्याह व्यासोऽपि-- “सर्व न्याय्यं युक्तिमत्वाद् विदुषां किमशोभनम् ।" इति । एवमत्रापि तिथ्यादिप्रतिपत्तिच्छेदसंवादे सति न दोषः । संवादश्च गषनस्य प्रकारभेदेऽपि फलसाम्यं स्यादिति स्वमनीषया कल्प्यमानानां सङ्ख्याविशेषाणां मिथः संवाद एवान्वेषणीयः । उपेयस्यैव नियमः नो पायानाम् । उपादेया न ये हेयास्तानुपायान् प्रचक्षते । उपायानां च नियमो नावश्यमवतिष्ठते ।” इत्युपायानामनियमः प्रकीर्णकेऽप्युक्तः । तस्माद् वारप्रवृत्तिभेदेऽपि ग्रहण- ग्रहयोगादिषु इसंवादे सति न दोष इति वराहमिहिरस्याभिप्रायः । बहूनां नानावारप्रवृत्त्यभिधानं वराहमिहिरेण बर्हाभिरार्याभिरुक्तम्, एकयैव मन्दा क्रान्तया श्रीपतिनाभाणि ‘केचिद् वारं सवितुरुदयादाहुरन्ये दिनार्ध भानोरधीस्तमयसमयादूचिरे केचिदेवम् वारस्यादिं यवननृपतिर्दिङ्मुहूर्तान्निशायां लाटाचार्यः कथयति पुनश्चर्धरात्रे स्वतन्त्रे । इति. । मध्यमानयनमपि त्रैराशिकसूत्रेणैव सिद्धम् । दुरवगाहतकनुग्राह्य त्वाभावाद् न वक्तव्यम् । तत्राहर्गणेन वा इष्टग्रहोदयैव तत्तद्यतभगणेन वा चान्द्रसौरादिष्वन्यतमेन मानेन वा तत्तन्नाडिकाभिर्वी कलाभिर्वा कर्तुं शक्यं , सर्वेषां मिथो नियमसद्भावात् , प्रथमतो ज्ञातेन केनचिदषि लिङ्ग तेनेतरेषामनुमेयत्वात् ॥ } १६ ।। अतस्ततो विरम्यावसरप्रातं स्फुटयुक्तिप्रदर्शनपरमार्थीपञ्चकं व्याख्यायते - कक्ष्याप्रतिमण्डलगा भ्रमन्ति सर्वे ग्रहाः स्वचारेण । इन्दोचदनुलोमं प्रतिलोमं चैव शीघ्रोचात् ॥ १७ ॥