पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० आर्यभटीये सभाष्ये गणनयैव स्यात् । तस्मात् कृतादिदिन एव बुधस्य वारः । अनेनैव न्यायेन कल्पादेरतीतयुगगणस्य पादत्रयसहितस्य नवेष्वब्धिभितस्य सप्तावशिष्टस्यै कत्वाद् गुर्वादिगणनयैव द्वापरान्तिमदिने गुरोराधिंपत्यं सम्भवतीति गुरु वारादित्वमेव कल्पाद्यहर्गणस्य युज्यते । एतदहर्गणानयनं कमी(धादि ? ब्दाधिपावगमनान्तं सूर्यसिद्धान्ते विस्पष्टं प्रदर्शित ‘घण्मनूनां च संपिण्ड्य कालं तत्सन्धिभिः सह । कल्पादिसन्धिना साचें वैवस्वतमनोस्तथा ॥ युगानां त्रिघने यातं तथा कृतयुगं त्विदम् । श्रोज्झ्ध सृष्टेस्ततः कलं पूर्वोक्तं दिव्यसङ्ख्यया । सूर्याब्दसङ्ख्यया ज्ञेयाः कृतस्यान्ते गता अमी । खचतुष्कयमावलिशरनन्दनिशाकराः ॥ अत ऊध्र्वममी युक्ता गतकालाब्दसङ्ख्यया । मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः ॥ पृथक्स्थास्तेऽधिमासाः सूर्यमासविभाजिताः । लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः । द्विष्ठास्तिथिक्षयाभ्यस्ताश्वान्द्रवासरभाजिताः । लब्धोनरात्ररहिता लङ्कायामार्धरात्रिकः । सावनो भृगणः सूर्याद् दिनमासाब्दपास्ततः । सप्ताभिः क्षपितः शेषः सूर्याद्यो वासरेश्वरः । मासाब्ददिनसङ्ख्याप्तौ द्वािनौ रूपसंयुतौ । सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षपौ ।” इति । अत्रं पक्षेऽप्यार्धरात्रिक एवाहर्गणः । अत उक्तं वराहमिहिरेण वां (१)प्रवृद्धर्निश्चयाभावं प्रतिपिपादयिषता fलङ्कार्धरात्रसमया दिनप्रवृत्तिं जगाद चर्यभटः । भूयः स एव चार्कोदयात् प्रभृत्याह लझायाम् ।।” इति । या पुनस्तदा स्वकीयेऽवन्तिविषयेऽस्तमयात् प्रभृति प्रसिद्ध वार संसृत्ति, तत्रापि नाप्तवाक्यं न च युक्तिः काचिदप्यस्ति ।