पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये कक्ष्यामण्डलतुल्यं स्वं स्थं प्रतिघण्डलं भवत्येषम् । प्रतिमण्डलस्य मध्यं घनभूमध्यादतिक्रान्तम् ॥ १८ ॥ प्रतिमण्डलभूविवरं व्यासार्धे स्वोचनीचवृत्तस्य । वृत्तपरिधौ प्रहास्ते मध्यमचारं भ्रमन्त्येव ॥ १९॥ यः शीघ्रगतिः स्वोचत् प्रतिलोमगतिः स्ववृत्तकक्ष्या [याम् । अनुलोमगतिर्दूत्ते मन्दगतियों ग्रहो भ्रमति ॥ २० ॥ अनुलोमगानि भन्दच्छीघ्रात् प्रतिलोमगानि वृत्तानि। कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहो मध्यः ॥ २१ ॥ इति । तत्र पवभिरार्यायैर्यथाप्राप्तस्य स्फुटकर्मण उपपतिं दर्श यति । इतरैः पञ्चभिः क्षेत्रकल्पनान्तरं प्रदश्येते । चापीकरणादिना जाय मानस्य स्थौल्यस्य परिहरणार्थं क्रियालाघवाथ च तत्कल्पना । कक्ष्यायाः प्रतिमण्डलं कक्ष्याप्रतिमण्डलं तेन मार्गेण गच्छन्तीति कक्ष्याप्रतिमण्डलगाः । भ्रमन्ति वृत्ताकारेण पर्यटन्ति, नपुनर्भवं मेघीकृत्य प्राङ्मुखा गच्छन्ति । प्रत्यभ्रमणापेक्षयैव मेधीभूतवं भुवः, नपुना राश्यभिमुखचलनापेक्षया । स्वचारेण प्रतिमण्डलपरिमाणानुरूपं नानाभूतया त्रैराशिकानीतया स्वस्व- मध्यगत्येति यावत् । किं पुनर्मुचसंज्ञे वस्तु, कथं वा तस्य स्फुटीकरण उपयोग इत्यत आह – मन्दोचादनुलोमं प्रतिलोमं चैव शीलिोचा इति । स्वैस्वप्रतिमण्डलावयवेषु यस्यांशस्य भुवोऽतिविप्रकृष्टत्वं स एव हि तस्योचप्रदेशः । तस्यापि न स्थिरत्वं सदा गच्छत्येवेति । यदा ग्रह ध्यमस्य्चमध्यमस्य च राश्यादिसाम्यं तदा हि तयोर्योगः । तत्र मन्दोच (ब्रह)थौर्योगात् प्रभृति प्रादिश्येव ग्रहस्य विप्रकर्षः स्यात् । उभयोः प्रागतित्वेऽपि ग्रहस्य वेगाधिक्यात् क्रमेण विप्रकर्षः स्यात् तज्जीवानुरूपम्। उच्चनीचरेखाया ग्रहस्य च सा हि भुजाज्या । ग्रहोच्चनीचरेखयोः परमो विप्रकर्षश्चोच्चनीचाँच्च राशित्रयान्तरिते ग्रहे स्याद् इति द्वितीये पदे क्रमेण सन्निकर्षःविप्रकर्षस्य पुनरुकमज्यानुसारेण क्रमेण सात् । स च विप्रकर्षो द्वितीयपदान्तैनीचयोगे शून्यतां च प्राप्नुयात् । ततः प्रभृति 1. ‘ध्य', २. ‘स्वश', ३. ‘योग।’ ख. पाटः५, ‘च', ५. ‘न्ते’ के पास: ,