पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ आर्यभटीये सभाष्ये इति । मुजालकश्च लघुमानसाख्ये करणे तकनैव संक्षिप्याह लाघविकः “इन्चोनार्ककोटिन गत्यंशा विभवा विधोः । गुणोऽप्यर्केन्दुदोःकोट्यो रूपपञ्चाप्तयोः क्रमात् । फले(शांशक ? शशाक)तद्गत्योर्लिसाद्योः स्वर्णयोर्वधे । ऋणं चन्द्रं धनं भुक्तौ स्वर्णसाम्यवधेऽन्यथा ।” इति ॥ ९ ॥ स्त्रग्रन्थकरणकालं तात्कालिकं स्ववयश्च प्रतिपादयंस्तदानीमयनचलनस्याभावात् तदप्रदर्शनम् औदयिकार्धरात्रिकभेदेन स्वप्रणीतयोः सङ्ख्याभागेथेः भूदिनभेदेऽथि तदानीं फलसाम्यस्योपपाईं चार्थं दर्शयति षष्ट्यब्दानां षष्टिर्यद् व्यतीतास्त्रयश्च युगपादः। भ्यधिका विंशतिरस्तदेहं मम जन्मनोऽतीताः ॥१०॥ इति । वैवस्वतमनोरष्टाविंशयुगस्य चतुर्थे पादेऽपि षष्ट्यब्दानां षष्टिर्यदा गता तदे(व १ ह) मम जन्मनयधिका विंशतिरब्दा अतीता इत्यर्थः । ‘युगपादा ग चे’ति गीतिकापादोक्तस्येहाप्युक्तिः षष्ट्यब्दानां षष्टे स्तदूर्वभवकालत्वप्रदर्शनाय । इतरथा कुतोऽवधेः षष्टघब्दानां षष्टिर्गतेत्या काङ्का स्यादिति तदवधिप्रदर्शनायैवेदानीमपि तत् स्मारितम् । तस्माद् भार ताद् गुरुदिवसात् प्रभृतदािनमेितावान् कालो गत इत्युर्मेऽवगन्तव्यः । कलेरित्येवोच्यमाने पुराणेषु गणितशास्रान्तरेषु च प्रसिद्ध यो युगविभागः तद्वशत् कल्यादिश्रुवः कस्येत । यदा? द्वा) कल्याद्यहर्गणेन ग्रहा गण्यन्ते, तन्मा भूदिति स्वाभिमतस्य विभागस्य विस्पष्टत्वाय तदेव द्वित्रियते त्रयश्च युगपादा इत्यनेन । तस्माद् युगभगणांत्रिभिः संगुणय्य चतुर्भिर्हत्वैव कल्यादिध्रुव आनेयः । इतरथा नवभिर्गुणयित्वा दशभिर्हत्वाप्तस्य राश्यादे धैवत्वेन ग्राह्यत्वं स्यात् । तथा सति कुजादीनां त्रयाणां बुधस्य च शीघोर्च रविबुधशुक्रमध्यानि च विनान्येषां संभवन्त्येव ध्रुवाः । कृतादीनां चतुर्णा युगानां साम्ये पुनश्चन्द्रचपातयोरेच राशित्रिकं राशिषट्कं च भुवत्वेन क्षेप्यं स्यादित्यत्र सन्देहच्छेदनाय त्रयश्च युगपादा इतीदानीं विस्पष्टमुक्तम् । तेन मयगर्गादिप्रणीतशास्त्रेषु सृष्टयब्दपरित्यागोपपत्तिश्च सुचिता । तत्रापि प्रहसृष्टघनन्तरकालस्य चरमयुगगतं पादत्रयमेवैकं कथं स्यादिति तदनुरूपं १. 'प, २. ‘व’ ख. पाठः. ३. ‘द्धयोर्दूयोर्युग' क, पाठः