पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ तत्र तत्र सृष्टिकालो नानापरिमाणोऽङ्गीकृतःवारसंवादाय च कल्पाद्याह गीणस्य । एतदुक्तं भवति -- मयेदानमेितास्मिन् ग्रन्थे क्रियमाणे कलेरा रभ्य षष्ट्यब्दनां षष्टिर्गता, त्रयोविंशतिवयस्केन् मया ग्रन्थः क्रियते च । अत इदानीं प्रकृतिस्थमेवायनं , तचलनानयनार्थस्य मध्यमस्य राशिषट्क परिपूर्तेः । राशित्रयेण क्रमेणोपचितस्य पुनरुत्क्रमेणापचीयमानस्य द्विती यपदान्ते शून्यतापत्तेः । कुतः पुनरिदानीं तस्य राशिषकपरिपूर्तिरव गम्यते । उच्यते । यतः सूर्यसिद्धान्ते तद्भगणसंख्या त्रिंशता१ तो) विंश तिरुक्ता । सा च षट्छती । दिव्याब्दानां द्वादशसहस्राणि च युगम् । तेषु युगदिव्याब्देषु तया हृतेषु फलं विंशतिसंख्यम् । तस्माद् दिव्याब्दानां विं शत्या एको भगणो लभ्यते । ततो दिव्याब्ददशकेन भगणधं च लभ्यते इति । पट्यब्दवधुिमितं च दिव्याब्ददशकं, षष्टब्दानां प्रभवादीनां मानु घत्वात् । तस्माद् दिव्याब्दषडंशानां षष्ट्यब्दानां दशकेन एको राशिश्च लभ्यः । तत्रिंशांशेन सौराब्दानां विंशत्या भागश्च । शिष्टाब्दात्रिगुणाः कलाश्च । एवंकृतस्य भुजालितान्निघ्ना दशा(ब्दा ?प्ता) अयनचलनकलाश्च स्युरिति त(का ? त्क)लाद्यानयनमप्युक्तम् । मणिन्योक्तमपि फलतस्तत्तु ल्यम् । दिव्याब्दपञ्चकेन सप्तविंशतिभागान्तं वर्धते ततः क्रमेण (म? च) हीय मानं दिव्याब्दपञ्चकेन शून्यतां च प्राप्नुयात् । तत्र एकप्रकारैव वृद्धिी निश्च । तैरुक्तं तत्र पदान्ते वृद्धिह्रसयोमीन्धेन भाव्यं, गोलसन्धिमभितः शैत्रघेण चेति तदुक्तस्य गणितस्य तचलनगतेः साम्यात् स्थौल्यमेव स्यात्, न सूक्ष्मता । तदंतिवृद्धिहसप्रकारश्च महता कालेनैव परिच्छेतुं शक्यःन पुरुषायुषेणेति तन्निर्णयः परीक्षयैव कार्य इति । तत्परीक्षणप्रकारश्च सूर्यसि द्धान्तादिषु प्रदर्शितः । तदुक्तं ‘उक्ता भांगैर्विकृतिः प्रत्यक्षपरीक्षणैर्युक्तिः । इति । अयनचलनवृद्धिक्षयस्वभावमात्रपरीक्षणस्यापि पुरुषायुषेणाशक्यत्वं , किमुत तत्सम्बन्धियुगमण्डलपरीक्षाया इति चेत् । नैष दोषः । अतीतकृत युगान्ते कृते सूर्यसिद्धान्ते कृतावसाने तद्भृग्गणपरिपूर्तिरुक्ता । द्वापरान्ते तत्परिपूर्तिश्च गर्गव्यासादिवाक्येभ्यश्चावगम्यते । अपिच अमितायुर्योग जातानां युगान्तजीविनां च चिरजीवित्वात् तद्वर्धनं क्षयश्च पञ्चभिर्दिव्याब्दै १. ‘थुम’ क. पा€ः