पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ११ “आश्लेषार्धाद् दक्षिषमुत्तरमयनं रवेर्घनिष्ठाद्यम् । नूनं कदाचिदासीद् येनोक्तं पूर्वशास्त्रेषु । साम्प्रतमयनं सवितुः कर्कटकाधं मृगादितथान्यत् । उक्ता भांशैर्विकृतिः प्रत्यक्षपरीक्षणैर्युक्तिः । इति । तचलपरिमाणस्य परीक्ष्य निर्णयस्तद्वशात् फलविशेषश्च उपरितनेन ग्रन्थेन प्रदर्शितः । “दूरस्थचिद्वेधादुदयेऽस्त(मे ? मयेऽपि वा सहस्रांशोः । छायाप्रवेशनिर्गमयिन्दो मण्डले महति ।” इत्यादिना हि तञ्चलनं प्रत्यक्षत उपलभ्यते तन्मूलैतिवून स्मृतेश्च । तत्सर्व मुपरिष्टात् स्पष्टीकरिष्यामः । तच्च तिर्यग्दिगनुसारेण । एतत् पुनरूबीचोदि- गनुसारेणें । एतच्चलनवशाच दृग्गोलगतानां ग्रहाणां भेदः स्यात् , नच भ- गोलवयवैसम्बन्धविशेषस्म । इति तिथिनक्षत्रादिग्रहगतौ तस्योपयोगाभा वात् तपरिमाणं न प्रदर्शितम् । तच्च लभ्यनादि न्यायविदां परीक्ष्य निर्णेतुं शक्यम् । तन्न्यायाध गोलपादे प्रकाश्यन्ते । तत्परिमाणं तन्मूलं गणितकर्म च ग्रहयोगाध्याये श्रीपतिराह ‘त्रिभविरहितचन्द्रोचोनभास्वद्भुजज्या गगननृपविनिकी भत्रयज्याविभक्तुं । भवति परफलख्यं तत् पृथक्स्थं शरी हेतमुडुपतिकर्णत्रिज्ययोरन्तरेण ॥ यदिह फलमवाप्तं तद्धनर्णं पृथक्स्थे तुहिनकिरणक( v? नैं) त्रिज्यकोनाधिकेऽथ । स्फुटदिनकरहीनादिन्दुतो या भुजज्या स्फुटपरमफलज्नी भाजिता त्रिज्ययाप्तम् ॥ शशिनि (च? प)फलाख्यं सूर्यहीनेन्दुगोलात्। तदृणमुत धनं स्यादुचीनार्कगोलम् । यदि भवति हि यास्यं व्यस्तमेतद्विधेयं कुटगणितङ्गैक्यं कर्तुमिच्छद्रित्र ।” १. ‘ए’ ख. पाठः. २. ‘ण । त' क. पाठः. ३. ‘वविशेषसम्बन्धस्य, ४, ‘’ ख. पाठ . ५, ‘ह’ क. पादः