पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलक्रियापादः इति । द्रष्टुपेक्षयै कसूत्रगतत्व (ए)व द्वयोर्दूयोयोगश्च विवक्षितः । न पुनर्दयो ऍयोषंहयोर्बिम्ययोः सम्भवति, कक्ष्याभेदस्य वक्ष्यमाणत्वात् । तदुक्तं सूर्यसिद्धान्तेऽपि ‘भावभावाय लोकानां कल्पनेयं प्रदर्शिता । स्वमार्गगाः प्रयान्येते दूरमन्योन्यमाश्रिताः । इति । अतो रविभगणान्तरतुल्या एव दिवसाः । दिवसशब्देनैषां सावनत्व- मपि सिद्धं , यतः सावन एव दिवसशब्दो मुख्यतया वर्तते । लक्षणयैवा कैचन्द्रादिषु । भावतश्चापि नाक्षत्रः । दिवसा इत्यनुवर्तते । भानामश्विन्या दर्नामावर्तः प्रत्यग्भ्रमणं नाक्षत्रो दिवसः । भगण एव नाक्षत्रा दि वसा इति यावत् । यद्वा अश्विभ्यादीनां पैष्णान्तानां नक्षत्राणां परिवत नाक्षत्रैः । नक्षत्रसम्बन्धी मास इति चाथीत् सिच्यत । लक्षणयैव हि मानोन्तरेषु मासादिशब्दा वर्तन्ते । तत्र मासशब्दश्चान्द्र एव मुख्यतया वर्तते । ‘इन्द्राशी यत्र ह्येते मासादिः स प्रकीर्तितः । अभीषोमौ स्थितैौ मध्ये समाप्तौ पितृसोमकौ ।” इति हि मासलक्षणं वदन्ति सन्तः । तत्र चन्द्रभगणस्य मासासङ्गत्वात् मासेनैव च सम्बन्धःन पुनर्दिवसादिना संवत्सरेण च । तस्माच्चन्द्रभग णस्य मासत्वमेव युक्तम् । तस्मात् तत्रैव मासशब्दस्य लक्षणाव्यापारोऽपि युज्यते । बार्हस्पत्यमाने बृहस्पतिचारोऽपि संवत्सर एव, तस्य संवत्स रासन्नत्वात् । तथा चन्द्रभगणोऽपि मास एव । तथा भानां प्रत्यग्भ्र मणमपि दिनमेव, तस्यापि रविप्रत्यग्भ्रमणासन्नत्वादेव ॥ ५ ॥ अत्रोलैः सौरचन्द्रसावनात्मकैर्वर्षमासदिवसैरधिमासावमा(ल? }भ्यां चाहर्गण आ- नीयत इति तावप्याह अधिमासका युगे ते रविमासेभ्योऽधिकास्तु ये चान्द्राः। । शशिदिवसा विज्ञेया भूदिवसोनास्तिथिप्रलयाः ॥ ६ ॥ == १. ‘न्ते -- क. पाठः. २. ‘४’ ख. पाठः३. ‘नां ना, ’. ‘प्रस', ५. ‘ना विधु' क. पाठः ६, ‘दाभ्यां ख. पाठः•