पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाध्ये इति। त्रयोदशहतराविभग(गैः १ णेभ्यः) क(लि १ ल्प)चन्द्रभगणानां यावद्भिरार्धिक्यं तावन्त एव युगेऽधिमासा इत्युक्तं भवति, यतश्चन्द्रभ- गणात् केवलरविभगणं विशोध्य चान्द्रमासा लभ्यन्ते । तेभ्योऽपि पुनर्दादश- हृतान् रविभगणान् विशोध्याधिमासाश्च लभ्यन्ते, यतः प्रत्यब्दं ये त्रयो- दशराशिभगणातिरिक्तश्चन्द्रभुक्तभागाः तेषु द्वादशङ्कतेषु अधिकतिथयश्च लभ्यन्ते । अतः प्रत्यब्दमेकादशाधिकतिथयः सावयवाः स्युः । कुतस्तेषां द्वादशहरणात् तत्सिद्धिः । “अर्काद्विनिस्सृतः प्राचीं यद् याम्यहरहः शशी । तचन्द्रमानमंशैस्तु ज्ञेय द्वादशभिस्तिथिः ॥“ इति वचनादादित्यात् प्राग्गतानां चन्द्रभुक्तभागानां द्वादशभिर्हर्णेन तिथि सिद्धेः । चान्द्रमासानां सौरमासेभ्यः सङ्ख्ययाधिक्यादेव परिमाणतोऽथ त्वमपि सिद्धम् । यतोऽल्पेन मीयमानं वस्तु धान्यादिकं महता मानेन मीयमानात् सस्ययातिरिच्यते, एवं महता सावनदिवसेन मीयमानस युगात् ततोऽल्पेन चान्द्रदिवसेन मीयिनं युपतिरिच्यत इति युगसाव नाद् युगचन्द्रदिवसनां सङ्ख्ययाधिक्यम् । तावतीनां तिथीनां साव नेषु प्रलीनत्वात् सावनेभ्योऽतिरिक्तानां चान्द्रदिनान्म तिथिप्रलयोक्तिर्यु ज्यते ॥ ६ ॥ एवं मानुषाथि षण्मानानि प्रतिपाद्य पित्र्यदित्र्यप्राजापत्यानां मानानां स्वरूपं दर्श यति रविवर्म मानुष्यं तदपि त्रिंशद्गुणं . भवति पित्र्यम् । पित्र्यं द्वादशगुणितं दिव्यं वर्षे समुद्दिष्टम् ॥ ७ ॥ दिव्यं वर्षसहस्त्रं प्रहसाभान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहत्रं ब्राह्ममो दिवसो ग्रहयुगानाम् ॥ । ८ ॥ इति । रविवर्ष मानुष्यमित्यनुवादेन संवत्सरशब्दस्य रविव्रर्षे एव मुख्यतया वृत्तिः, अन्यत्र तु लक्षणयेति द्योत्यते । तदपि त्रिंशद्गुणं भवति पित्र्यमिति पितृणां शशिमण्डलगतत्वादमावास्यायां च शशिनः समोपरिष्टात् स्र्यावस्थितेस्तदैव तेषां मध्याह्नः । अत एवापरपक्षमध्ये-चोदय.इयपस्रक्षो- १. ‘ये ति’ ख. पाठः. २. ‘नेऽप्यति क. पा४ः .