पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । इति विष्कम्भादियोगष र्या ??)याः प्रदर्शितः | व्यतीपातानां प्रत्येकं तावत्यः सङ्कथा गतिश्च तेनैव सिद्धाः यत एकस्मिंश्चन्द्रार्कयोगपर्ययेऽत्र त्रयो व्यती- पाताः चक्रव्यतीपातश्चक्रार्धव्यतीपातः सार्पमस्तकश्च । भास्करश्चाह “स्पेंदुयोगे चतुर्थे व्यतीपातोऽथ वैधृतः । चक्रे च मैत्रपर्यन्ते विज्ञेयः सार्पमस्तकः । सूर्यसिद्धान्तेऽपि त्रिसङ्ख्यत्वमुक्तं व्यतीपातानां ‘‘व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा । इतेि । यः पुनरिह प्रासङ्गिकतया प्राप्तवसरः चन्द्रार्कयोगः स चैवंभूत इति तत्सङ्गतिश्चकारेण मुच्यते ।। ३ ॥ तंत्र तिथिरणयोझनै योगज्ञाने च चम्चाक स्फुटीकृस्यैव तद्विश्लषे योगा वा कार्यं इति, तद्गणैर्न त्रैराशिकेन मध्यमानयनं कार्यमिति, प्रहमणीयश्लेषयोगयोः कुट्टाकार एवप्रयोगः । तत्कुऋकारस्य च प्रहगतिपरीक्षायां जातके चोषयोग इति तयोर्नात्र प्राचुर्येण व्यवहारः । ग्रहोच्चभगणान्तरेणेह प्राचुर्येण स्फुटकर्मण्युपयोगात् तन्मध्यमनयनं च सर्वकालीनमेवेत्यत आह – स्वोच्चभगणः स्वभगणैर्विशेषिताः स्वोच्चनीचपरिवर्ताः। इति । स्वोच्चभगणाः स्वभगणैर्विशेषिताः स्वभगणेभ्यो मन्दोजभग णान् विरुध्यः शीघ्रोच्चभगणेभ्यः स्वभगणांश्च विशोध्य ये ये शिष्ट लब्धास्ते ते स्वेच्चनीचपरिवर्ताः । स्वस्य स्वस्य प्रतियुगं मन्दोच्चनीचवृत्यै शीन्निोच्चनीचवृत्ते च तावन्तः परिवर्ताः स्युः । ततस्तैर्बह्वन्मध्यमानयनमपि कार्यमित्यभिप्रायः । वक्ष्यतिः च ‘वृत्तपरिधौ ग्रहास्ते मध्यमचारं भ्रमन्त्येव ।” इति । तत्र यो मध्यमचारत्वेन विवक्षितः स एतैरहर्गणेन च त्रैराशिकेना नेय इति । द्वियोमन्यायेन सिद्धेऽपि विविच्य ग्रहणाय पुनरपि तदुक्तिरि त्यस्य स्वोच्चनीचवृत्तगतिप्रदर्शनपरत्वात् न पौनरुक्त्यमिति । १. ‘ति ।g, २. ‘ने चन्द्र ', ३. ‘से’ च ता' क. पा.