पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये किन्तु गुर्वक्षराणि षष्टिराक्षी विनाडिका, आक्ष्यं विनाड्याः षष्टयंश एव मध्यमवृत्त्या गुर्वक्षरोच्चारणकालः । स्वस्थस्य जन्तोर्निःश्वसश्च तस्या एव षडंशः । ‘प्राणेनैति कलां भमित्यस्य विवरणमेतत् । समानान्तरगतानां वि नाडीनां षट्त्रंशा गुर्वक्षरान्महान्तोऽल्पाश्च स्युः । एवं मुहुरपि घंट्यंशा एव तदवयवा (एव । १) ग्राह्यः । एतस्य विभागस्य त्रिरावृत्तत्वात् पुनरन्या दशस्याप्रसिद्धत्वाचेति भावः । एवं यः कालविभागः प्रसिद्धः वर्षदिगुर्वक्ष रान्तःभगणात् प्रभृति तदवयवेभूतानां राश्यादीनां तत्परान्तानां विभागो ऽप्येवमेवेति कालविभागस्य क्षेत्रेऽतिदेशोऽत्र क्रियत इति ॥ १, २ ॥ दूयोर्दूयोर्गेहयोर्यावन्त एकस्मिन् युगे यगस्तेऽथि विज्ञेया एव, यतस्तयोरन्तरकाल ज्ञातव्यः । गुरुशनैश्चराद्ययोरभीष्टयोर्युदाकदाचिद्योगो दृष्टःततः कियति काले पुनस्तयोरेव ततो द्वितीयो योगो भविष्यतीत्यादिज्ञाने ताभियागावृत्तभिः तदन्तरालकालस्य शेयवात्ता अपि क्षेयाः। ताश्च गीतिकापतैिस्तयोर्भगणैरेव ज्ञेया इति तप्रदर्शनार्थम् आर्यार्थमाह भगण द्वयोर्दूयोर्ये विशेषशेष युगे द्वियोगास्ते । इति । विशेषशेषा (ये ) द्वयोर्दूयोर्भगणयोस्त एव युगे द्वियोगाः द्वयोर्बिम्ब्योगसञ्जयेति । न केवलं ग्रहाणामेव योगसङ्कथा ज्ञेयाःउचग्रह योगसद्भयाः पातग्रहयोगसङ्कयाश्च ज्ञेयाः। तत्तत्स्फुटगत्यावृत्तिकालज्ञानार्थं च अहोचयोगज्ञानं, विक्षेपपथं ? यी)यकालज्ञानार्थं ग्रहपातयोगाश्चेति ज्ञेयो पुंयोर्योगे इत्येवोक्तम् । येषाभिह भगणाः प्रदर्शितास्तेषु ययोर्योगा जिज्ञास्यन्ते तयोर्भगणविश्लेष एव तदा कर्तव्यः । तद्विश्लेषणे यः शेषः सं एव तयोर्युग सम्बन्धिनी योगसङ्कयेत्यर्थः । एवं तिथ्यादिपर्यस्य मासादि(कं ? कालामकस्य प्रदर्शने विष्कम्भादिंयोगस्यापि प्रसङ्गल् तत्पर्यवांस्ततच्यतीपातपर्येयांश्च प्रदर्शयत्यूर्वार्धेन रविशशिनक्षत्रगणाः सम्मिश्रश्च व्यतीपताः ॥ ३ ॥ इति । रविशशिनक्षत्रगणाः सम्मिश्रा व्यतीपाताः । रविशशिनक्षत्र गणयोगा इत्युच्यमाने अनन्तरप्रदर्शितबिम्बयोगा एव प्रतीयेरन् । अतंस्तद् व्युदासार्थ संमिश्रग्रहणम् । संमिश्रा रविशशिनक्षत्रगणाः सम्यङ् मिश्रो येषां ते संमिश्राः तयोर्भगणयोः सङ्गचासम्मिश्रणे व्यतीपातसङ्कया चेयेत्यर्थः । १. ‘षट्घः प्रा ', २. ‘वानां ... ... .. त', ३. ‘स्ते वि', ४. ‘त्तत’, ५, ‘ग एवेस्युतम् , ६. ‘योर्ययोर्यों' क. पाठः.