पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
45
प्रथमप्रश्नः

 रसादिभेदविभजनार्थं रसनेन्द्रियप्रकल्पनम् । तदुद्भूतद्रव्यं तद्विभजनार्थम् । तदुद्भूतव्यतिरिक्तस्य तेन ग्रहीतुमशक्यत्वात्, इत्याशयं मनसि निधाय रसनेन्द्रियस्वरूपं विवृणोति-- लालेति ।

 लालारूपो रसादिभेदान्विभजन् जिह्वया रसं गृह्णाति ॥ ८१ ॥

 लालारूपरसः जिह्वाग्रवर्ती पदार्थान्गृह्णाति । भुक्तान्नविभजनं च करोतीत्यर्थः ।

 ननु रसादिविभजनं ग्रहणीकला अदुष्टा सती करोतीति सर्वं विधिवत्प्रतीयते । सा अदुष्टा सत्यपि तद्विभजनज्ञानं नानुभूयते, तद्विभजनज्ञानस्य जठराग्नेश्च कार्यकारणभावो गृह्यते चेत् जिह्वाग्रस्थितलालाजलस्य कार्यकारणभावः कथं गृह्यते? तद्भेदविभजनस्य अन्यथा सिद्धत्वात् । तस्मादनन्योद्भूतात्मकत्वं नोपलभ्यते इत्यस्वरसादाह-- जिह्वेति ।

 जिह्वासंस्थितद्विसिराधारसर्वरसाभिज्ञा ॥ ८२ ॥

 अनलजाताब्लालारूपरसनेन्द्रियस्य रसस्पर्शमात्रेण तत्तद्व्यञ्जनं कृत्वा रसादयोऽनुभूयन्ते । अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । द्विसिराधारकत्वं सर्वरसाभिज्ञत्वं अनलजन्यत्वं चैतस्यैव प्रतीयते नान्यस्येत्यर्थः । पृथिवीलक्षणं गन्धवत्त्वम् । गन्धवती पृथिवी सर्वशरीरगन्धोपलंभिका भवति । शरीरं पार्थिवं गन्धगुणस्योपलभ्यमानत्वात्, यन्नैवं, तन्नैवं यथा वायव्यशरीरम् । यथेति वायुलोकनिवासिनां दृष्टान्तः । अस्य तु शरीरस्थ पार्थिवावयवत्वेन सर्वगन्ध उपलभ्यते । तस्मान्न पञ्चभूतात्मकं शरीरमित्यस्वरसादाह-- चतुरिति ।