पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
आयुर्वेदसूत्रे

"आकाशाद्वायुः" इति प्रमासिद्धत्वात् । ननु देहस्य अनिलधारणत्वं दाहप्रतिबन्धकेऽसति अनलधारणत्वं च वक्तव्यम् । अन्यथा वहति नभोनिलवत् । अनिल धारणायोग्यत्वात् । जठराग्नेरन्नपचनकार्यस्य दाहप्रतिबन्धकाभावकार्यत्वेनादृष्टत्वात् इति न वक्तव्यम्, कुण्डलीगतपित्तस्य अनलवत्कार्यकर्मकरणोपयोगिकत्वात् । तत्पाचककर्म ग्रहणीकला पचनरूपकार्यं करोति । तस्मादनलात्मकं शरीरमिति वक्तुमयोग्यत्वादित्यस्वरसादाह-- षडिति ।

 षट्पञ्चाशत्सिरावृताक्षिगतानलः पञ्चरूपोपपन्नमाहारं पचन् अनिलजातानलस्स्वगतार्थं पश्यति ॥ ८० ॥

 अस्यार्थः--

 षट्पञ्चाशत्सिरावृते अक्षिणी ययोस्तयोर्गतानलः तैजसरूपाग्निः ज्वलद्द्रव्यसिरावृतनेत्रगोलमध्यस्थितत्वात् ज्वालावृतद्रव्यावयवानां दहनप्रतिबन्धकत्वं सम्पाद्य सोऽनलः भुक्तान्नपचनार्थं ग्रहणीकला भूत्वा शरीरं व्याप्य तिष्ठति । अतिदूरस्थमपि तत्सजातीयद्रव्यं विषयीकरोति । तस्मान्नेत्रगोलमध्यस्थितस्सन् यः पश्यति स एवानलस्सर्वशरीरव्यापकः । अनिलजातानलः स्वगतार्थं अनिलजातानलद्रव्यं दूरस्थमपि विषयीकरोति । अतिदूरस्थोऽप्यनिलश्चक्षुषा विषयो गृह्यते । कुण्डलीगतपित्तं तु सर्वभुक्तान्नपचनार्थम् । तस्याः कुण्डल्या देवतारूपत्वात् । तत्पित्तमपि तैजसवद्भवति । चक्षुर्गोचरार्थं चक्षुर्गततैजसं दूरस्थितमप्यर्थं विषयीकरोति । सा कला सर्वं पक्तुं योग्या भवतीत्यर्थः ।