पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
43
प्रथमप्रश्नः

लक्षणं प्रसिद्धमित्यर्थः । श्रोत्रान्तस्स्थितसिराभ्यां श्रूयते शब्दः । तावत आकाशस्य शरीरात्मकत्वं कथं सङ्गच्छते? ‘यत्सत्वे यत्सत्वम्; यदभावे यदभावः' इति न्यायेन शब्दग्राहकप्रतीतशब्दग्रहणं अन्वयव्यतिरेकाभ्यां देहस्याकाशात्मकत्वं न साधयति । तस्मात्पञ्चभूतात्मकं शरीरमिति वचनस्य यद्दूषणं दत्तं तदपरिहार्यं भवेदित्यस्वरसादाह-- शब्द इति ।

 शब्दगुणक आकाशः ॥ ७७ ॥

 शब्दो गुणो यस्य स शब्दगुणद्रव्यमाकाशः । बहुव्रीहौ कप्रत्ययः । आकाशस्य शब्दगुणकत्वात् । द्रव्यान्तरस्पर्शे सति तद्विषयकज्ञानं जायते । तदन्यथानुपपत्त्या तद्व्यापकत्वं वायोः प्रतीतम् । (आकाशवन्निर्गुणद्रव्यप्रतीतत्वात्) स्पर्शैकवेद्यत्वं वायोः प्रतीयते, स्पर्शगुणवान्वायुः इत्युपलम्भकत्वात् । स्पर्शो गुणो यस्य स स्पर्शगुणवान् । द्रव्यान्तरसंसर्गे सति तद्विषयकज्ञानं जायते । तद्व्यतिरिक्तेन्द्रियाणां अविषयत्वे सति तद्विषयकत्वात् । तदधीनज्ञानविषयकज्ञानं त्वगिन्द्रियज्ञानविषयकज्ञानपवनस्य एकदेशशरीरव्यापकत्वं सुप्रसिद्धम् । रसासृग्धातुजन्यां त्वक् । तदन्यधात्वनाधारभूतत्वचः श्वासोच्छ्वासरूपपवनधारकत्वं प्रतिपाद्यते-- रसेति ।

रसासृग्धातुजन्या त्वक् श्वासोच्छ्वासवहा ॥
सप्तधातुत्त्वगावृत्तानिलो वियज्जातः ॥ ७९ ॥

 उभयोरपि धातुत्वग्व्याप्यकार्यं प्रति एकशरीरस्य कार्यकारणत्वं भवति । एतावता त्वङ्मात्रस्य रसासृग्धातुजन्यत्वं सर्वजातिशरीरत्वचां व्याप्यत्वं प्रत्यपादीत्यर्थः । स वायुराकाशजन्यः,