पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
46
आयुर्वेदसूत्रे

 चतुर्विंशतिसिरा नासिकाग्रगतोद्भवा पृथिवी चतुर्विंशतितत्वबोधिका ॥ ८३ ॥

 सर्वाणि तत्वानि नासाग्रे प्रतिभान्ति । तस्मात्पार्थिवावयवि शरीरं कथं स्यादित्यस्वरसादाह-- यत्सिरेति ।

 यत्सिरावृतं शरीरम् । अन्नाद्भूतानि जायन्ते, जातन्यन्नेन वर्धन्ते, अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ॥ ८४ ॥

 सर्वाणि शरीराणि पार्थिवानि । तदितराः आपो ह्यग्न्यनिलाकाशाः तत्कार्योपलम्भकमात्रचरितार्थत्वात् । अतोऽन्यावयवं शरीरं स्यादित्याशङ्कते-- नासिकेति ।

 नासिकाधिक्यविकारभूताः नासाग्रे प्रतीयन्ते ॥

 तत्तन्निष्ठगुणानि तानि चतुर्विंशतितत्वरूपगुणानि चतुर्विंशतिसिराधारकानि । सर्वेऽवयवा गन्धवद्गुणभूयिष्ठाः । तस्मात् शरीरं पार्थिवमिति सर्वजनसिद्धमिति एतत्सिरावृतं शरीरमिति वक्तुं शक्यते । दोषधातुमलाशयात्मकं तत्सर्वं गन्धोपलब्धिज्ञानपूर्वकं पञ्चभूतात्मकं शरीरमिति सूत्रं न क्षमं, तद्देहातिरिक्तदेशस्थितं शरीरं समवेत्य तिष्ठतीति नोपयुक्तम् । किं च "अन्नाद्भूतानि जायन्ते" इति वचनमपि नोपपद्यते, सर्वेषां सर्वकालेऽपि प्रजोत्पत्तिरेव स्यात् इति चेन्न । अन्नादनसामग्र्यासर्वदोषस्थितत्वात्तादृशं कार्यं नोपपद्यते इति । किन्तु अदृष्टद्वारा स्त्रीपुंसयोगे सति प्रजाः प्रजायन्ते । तस्माच्छरीरान्तस्स्थितसप्तधातूनां मातृजास्त्रयः पितृजाश्च त्रयः । उभयमेलनं योनिः ।